________________
च नाईइ व साबिसमणं वा माहणं वाणिजरा कत्र
बहुतरगुणलाभकासया गृह्यमाणं दीयमानं च न दोषाय, तथा चागमः-"अप्पेण बहमेसेज्जा, एअं पंडिअलक्खणं । सव्वासु पडिसेवासु, एअं अट्ठापयं विऊ ॥१॥ काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ व सारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥१॥” इति। दायकस्य गुणो यथा-"समणोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणस्स किं कजइ ? गोअमा! बहुतरिया से णिजरा कजइ, अप्पतरए से पावकम्मे कन्जइत्ति। तथा “पहसंतगिलाणेसुं, आगमगाहीसु तय कयलोए । उत्तरपारणगम्मि अ, दिण्णं । सुबहुप्फलं होइ ॥१॥” इदमत्रावधेयम्-सकलोऽप्ययं दानविधिः ऋद्धिमच्छ्रावकमाश्रित्य ज्ञेयः, यतः स हि खपरपक्षाद्यविशेषेण सर्वसाधुभ्योऽनपानवस्त्रपात्रादि सर्व ददाति, दरिद्रश्रावकस्तु तथादानाशक्ती दानश्रद्धालुगृहाणि साधुभ्यो दर्शयति,तुच्छो ह्यविशेषेण दातुमशक्तोऽतोऽसौ धर्मगुरूणां दुष्पतिकारतया विशेषपूजनीयत्वात्तेभ्यस्तत्परिवाराय वा ददाति, शेषसाधुभ्यो गृहाण्युपदर्शयतीतिभावः । अत एवोच्यत 'सड्डेणं सइ विहवे, साहूणं वत्थमाइ दायव्वं । गुणवंताणविसेसो, दिसाइ तत्थवि न जेसत्थि ॥१॥ तुच्छेन दिशा देयं, तत्रापि येषां साधूनां वस्त्रादि नास्ति तेभ्यो देयमित्यर्थः । तदुक्तं प्रत्याख्यानपञ्चाशके-"संतेअरलद्धिजुएअराइभावेसु होइ तुल्लेसुं । दाणं दिसाइभेए, तीएऽदितस्स आणाई ॥१॥” इहाविशेषेण सा-5 धुभ्यो दानं दातव्यं श्रावकेण, अथ तुच्छद्रव्यत्वादविशेषेण दानाशक्तिः, ते च सहस्त्रत्वादिभिर्द्धमैस्तुल्या
ध. सं. ३५
Jan Education
For Private Personal Use Only
ainelibrary.org