________________
धर्म
॥ २०४ ॥
Jain Education
दनुव्रज्य च निवर्त्तते । साध्वभावे वनभ्रवृष्टिवत्साध्वागमनं जातु स्यात्तदा कृतार्थः स्यामिति दिगालोकं कुर्यात्, तथा चाहु: - "जं साहूण न दिण्णं, कहिंपि तं सावया न भुंजंति । पत्ते भोअणसमए, बारस्सालोअणं कुजा ॥ १ ॥” दानक्रियायामुत्सर्गापवादौ त्वेवम् – “संथरणंमि असुद्धं, दुण्हवि गिण्हंतर्दितयाणऽहिअं । आउरदितेणं, तं चैव हिअं असंधरणे ॥ १ ॥” संस्तरणे प्रासुकैषणीयाहारादिप्राप्तौ साधूनां निर्वाहे सति, अशुद्धं द्विचत्वारिंशद्दोषदूषितमाहारादि, द्वयोरपि गृहीतृदात्रोः, अहितं संसारप्रवृद्धेरल्पायुष्कतायाश्च हेतुत्वादपथ्यं स्याद्, यदागमः - "जो जह व तह व लद्धं, गिण्हइ आहारमुवहिमाइअं । समणगुणमुक्कजोगी, संसारपवडुओ भणिओ ||१||” तथा दायकस्य "कहण्णं भंते! जीवा अप्पा उत्ताए कम्मं पकरिंति ? गोअमा ! पाणे अहवात्ता भवइ, मुसं वइत्ता भवह, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, एवं खलु जीवा अप्पाउअत्ताए कम्मं पकरेंति "त्ति । इत्थं चोत्सर्गत उभयोरपि दोषदुष्टमहितमेव, अपवादतस्तु आउरेत्यादि, आतुरो रोगी तस्य दृष्टान्तस्तेन, यथा हि रोगिणः कामप्यवस्थामाश्रित्य पथ्यमप्यपथ्यं स्यात्, काञ्चित्पुनः समाश्रित्यापथ्यमपि पथ्यं स्याद्, एवमत्र 'तं चेव'ति तदेवाशुद्धमपि ग्रहीतृदात्रोर्हितमवस्थोचितत्वात् पथ्यं स्यात्, त्याह- असंस्तरणेऽनिर्वाहे, दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । अयमभिप्रायो- यद्यप्येतत्कर्मबन्धहेतुर्वर्णितं, तथापि "सव्वत्थ संजनं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ, पुणो विसोही नयाविरई || १||" इत्याद्यागमाभिज्ञैर्यथावसरं
For Private & Personal Use Only
संग्रह.
॥ २०४ ॥
jainelibrary.org