________________
धर्म
॥ २०३ ॥
चिअ जगगुरुणो, तित्थयराविहु गिहत्थवासंमि । अम्मापिऊणमुचिअं, अभुट्ठाणाईं कुव्वंति ॥ ४६ ॥ इत्थं नवधौचित्यं । इत्थं च व्यवहारशुद्ध्यादिभिरर्थोपार्जनं विशेषतो गृहिधर्म इति निष्कर्षः ॥ ६४ ॥ साम्प्रतं |[मध्याह्नादिविषयं यत्कर्त्तव्यं तद्दर्शयन्नाह ] अथ तदनन्तरकरणीयविशेषगृहिधर्मान्तरमाह
मध्याह्नेऽर्चा च सत्पात्रदानपूर्वं तु भोजनम् । संवरणकृतिस्तद्विज्ञैः सार्द्धं शास्त्रार्थचिन्तनम्॥६५॥ 'मध्याह्ने' मध्याह्नकाले, 'च' पुनरर्थे, पूर्वोक्तविधिना विशिष्य च प्रधानशाल्योदनादिनिष्पन्न विशेषरसवतीढौकनादिना द्वितीयवारमित्यर्थः । 'अर्चा' पूजा श्रावकाधिकारप्रस्तावाजिनपूजा विशेषतो गृहिधर्मो भवतीत्यन्वयः । एवमग्रेऽपि । तथा सत्पात्रं साध्वादि तस्मिन् दानपूर्व दानं दत्त्वेत्यर्थः 'भोजनं' अभ्यवहरणं 'तु:' एवकारार्थस्ततः सत्पात्रदान पूर्वमेव भोजनमिति निष्कर्षः, अन्वयस्तुक्त एव । अत्र च भोजनमित्यनुवादः । माध्याह्निकपूजा भोजनयोश्च न कालनियम, तीव्रबुभुक्षोर्हि वुभुक्षाकालो भोजनकाल इति रूढेमध्याह्लादर्वागपि गृहीतं प्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । अत्र चायं विधिः- भोजनवेलायां साधून्निमन्य तैः सह गृहमायाति खयमागच्छतो वा मुनीन् दृष्ट्वा सम्मुखं गमनादिकं करोति, साधूनां हि प्रतिपत्तिपूर्वकं प्रतिलम्भनं न्याय्यं श्रावकाणां, सा चेत्थं योगशास्त्रे - " अभ्युत्थानं तदाऽऽलोकेअभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम् ॥ १ ॥ आसनाभिग्रहो भक्त्या, वन्दना
Jain Education International
For Private & Personal Use Only
संग्रह.
॥ २०३ ॥
jainelibrary.org