________________
धर्म
॥ २०० ॥
नतु भृत्यादिभ्यः (भिः) कारयति । यतः “गुरोः पुरो निषण्णस्य, या शोभा जायते सुनोः । उच्चैः सिंहासनस्थस्य शतांशेनापि सा कुतः १ ॥ १ ॥" अपडिअंति वदनादपतितमुच्चार्यमाणमेवादेशः प्रमाणमेष करोमीति सादरं प्रतीच्छति, न पुनरनाकर्णितशिरोधूनन का लक्षेपार्द्धविधानादिभिरवजानाति “चित्तंपि हु अणुअत्तर, सव्वपयत्तेण सव्वकज्जेसुं । उवजीवह बुद्धिगुणे, निअसन्भावं पयासेइ ॥ ४ ॥" स्वबुद्धिविचारितमवश्यविधे| यमपि कार्य तदेवारभते यत्पितुर्मनोऽनुकूलमितिभावः । बुद्धिगुणान् शुश्रूषादीन् सकलव्यवहारगोचरांवोपजीवति अभ्यस्यति, बहुद्दश्वानो पितृप्रभृतयः सम्यगाराधिताः प्रकाशयन्त्येव कार्यरहस्यानि, निजसद्भावं चित्ताभिप्रायं प्रकाशयति “आपुच्छिउं पयहह, करणिजेसुं निसेहिओ ठाइ । खलिए खरंपि भणिओ, विणीअयं नहु विलंइ ॥ ५ ॥ सविसेसं परिपूरइ, धम्माणुगए मणोरहे तस्स । एमाइ उचिअकरणं, पिउणो जणणीइवि तहेव ॥ ६ ॥" तस्य पितुरितरानपि मनोरथान् पूरयति, श्रेणिकचिल्लणादेरभयकुमारवत्, धर्मानुगतान् सुदेवपूजागुरुपर्युपास्तिधर्मश्रवणविरतिप्रतिपत्स्यावश्यक प्रवृत्तिसप्तक्षेत्रीवित्तव्ययतीर्थयात्रादीनानाथोरणादीन्मनोरथान् सविशेषं बह्रादरेणेत्यर्थः | कर्त्तव्यमेव चैतत् सदपत्यानामिहलोकगुरुषु पितृषु, न चाहेद्धर्मसंयोजनमन्तरेणात्यन्तं दुष्प्रतिकारेषु तेषु अन्योऽस्ति प्रत्युपकारप्रकारः, तथाच स्थाना- S ङ्गसूत्रम् - तिन्हं दुप्पडिआरं समणाउसो ! तंजहा - अम्मापिणो १, भहिस्स २, धम्मायरिअस्स ३ ।” तु ॥ २०० ॥ इत्यादिः समग्रोऽप्यालापको वाच्यः । अथ मातृविषयौचित्ये विशेषमाह "नवरं से सविसेसं, पयडद्द भावा
Jain Education International
For Private & Personal Use Only
संग्रह
www.jainelibrary.org