________________
HAMACARECHANICANCILS
| "पादमायान्निधिं कुर्यात्पादं वित्ताय कल्पयेत् । धर्मोपभोगयोः पादं, पादं भर्तव्यपोषणे॥१॥" केचित्त्वाहुःआयार्द्ध नियुञ्जीत, धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥१॥ निद्रव्यसद्रव्ययोरयं विभाग इत्येके । इह न्यायार्जितवित्तसत्पात्रविनियोगाभ्यां चतुर्भङ्गी-तत्र न्यायार्जितविभवसत्पाविनियोगरूपः पुण्यानुबन्धिपुण्यहेतुः शालिभद्रादिवत् १, न्यायागतविभवयत्तत्पात्रपोषरूपो द्वितीयो भङ्गः पापानुबन्धिपुण्यहेतुर्लक्षभोज्यकृद्रिप्रवत् २, अन्यायायातविभवसत्पात्रपोषरूपस्तृतीयः राजादिबहारम्भिणामनुज्ञातः ३, अन्यायोपार्जितार्थकुपानपोषरूपश्चतुर्थस्त्याज्य एव विवेकिना ४, एवं न्यायेनार्थाजने यतनीयं । व्यवहारशुद्ध्यैव च सर्वोऽपि धर्मः सफलः, यद्दिनकृत्ये-“ववहारसुद्धि धम्मस्स, मूलं सचन्नू भासए । ववहारेणं तु सुद्धणं, अत्थसुद्धी तओ भवे ॥१॥सुद्धेणं चेव अत्थेणं, आहारो होइ सुद्धओ। आहारेणं तु सुद्धेणं, देहसुद्धी जओ भवे ॥ २ ॥ सुद्धेणं चेव देहेणं, धम्मजुग्गो अ जायई । जं जं कुणइ किच्चं तु, तं तं से सफलं भवे ॥ ३ ॥ अण्णहा अफलं होइ, जंज किच्चं तु सो करे । ववहारसुद्धिरहिओ, धम्मं खिंसावए जओ॥४॥ धम्मखिसं कुणताणं, अप्पणो अ परस्स य । अबोही परमा होइ, इअ सुत्ते विभासिअं॥५॥ तम्हा सव्वपयत्तेणं, तं तं कुजा वियक्खणो। जेण धम्मस्स खिंसं तु, न करे अबुहो जणो ॥६॥” अतो व्यवहारशुद्ध्यै सम्यगुपक्रम्यम् । इति व्यवहारशुद्धिखरूपम् ॥ तथा देशादिविरुद्धपरिहारो देशकालनृपलोकधर्मविरुद्धवर्जनं, यदुक्तं हितोपदेशमालायाम्-“देसस्स य कालस्स य, निवस्स लोगस्स
ध. सं. ३४
Jain Educaton Intematosa
For Private & Personel Use Only
Mw.jainelibrary.org