________________
धर्म
॥ १९८ ॥
Jain Education
गोप्ये तु तीव्रतरोऽसत्यमयत्वात्, असत्यं च महत्तमं पातकं, यतो योगशास्त्रान्तरश्लोके “एकत्रासत्यजं पापं पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥ १ ॥” इति । प्रीतिपदे च सर्वथाऽर्थसम्बन्धादि वर्जयेत्, नच साक्षिणं विना मित्रगृहेऽपि स्थापनिका मोच्या, मित्रादिहस्ते न द्रव्यप्रेष(र) णाद्यपि युक्तं, अविश्वासस्यार्थमूलत्वाद्विश्वासस्यानर्थमूलत्वाच्च । यथा तथा शपथादिकं च न विध्यात्, विशिष्य देवगुर्वादिविषयं । नापि परप्रतिभूत्वादिसङ्कटे प्रविशेत् । समुदितक्रयविक्रयादिप्रारम्भे वाऽविघ्नेनाभिमतलाभादिकार्यसिद्ध्यर्थे पञ्चपरमेष्ठिस्मरणश्रीगौतमादिनामग्रहणकियत्तद्वस्तुश्री देवगुर्वाद्युपयोगित्वकरणादि कर्त्तव्यं, धर्मप्राधान्येनैव सर्वत्र साफल्यात्, धनार्जनार्थमुवच्छता च सप्तक्षेत्रीव्ययादिधर्ममनोरथा महान्त एव नित्यं कर्त्तव्याः, सति च लाभसम्भवे तान् सफलानपि कुर्यात् "ववसायफलं विवो, विहवस्स फलं सुपत्तवि णिओगो । तयभावे ववसाओ, विवोविअ दुग्गइनिमित्तं ॥ १ ॥” एवं च धर्मर्द्धिर्भवति, अन्यथा तु भोगर्द्धिः पापर्द्धिर्वा, उक्तंच "धमिद्धी १ भोगिद्धी २, पाविडी ३ इअ तिहा भवे इद्धी । सा भणइ धम्मिड्डी, जा णिज्जइ धम्मकज्जेसुं ॥ १ ॥ सा भोगिड्डी गिज्जइ, सरीरभोगंमि जीह उवओगो । जा दाणभोगरहिआ, सा पाविडी अणत्थफला ॥ २ ॥ अतो देवपूजादानादिकै नैत्यिकैः सङ्घपूजासाधर्मिक वात्सल्यादिकैश्चावसरिकैः पुण्यैर्निजर्द्धिः पुण्योपयोगिनी कार्या । अवसरपुण्यकरणमपि नित्यपुण्यकरणकर्त्तुरेवौचितीकरं । लाभेच्छा तु खभा ग्यानुसारेणैव कुर्यादन्यथाऽऽर्त्तध्यानप्रवृद्धिः स्यात्, ततश्च मुधा कर्मबन्धः । व्ययं चायोचितं कुर्यात्, यतः
For Private & Personal Use Only
संग्रह -
॥ १९८ ॥
w.jainelibrary.org