________________
Jain Education In
दिरूपा 'व्याजे स्याद्विगुणं वित्तं' इत्युक्तेर्द्विगुण (णा) द्रव्य (व्ये) त्रिगुणधान्यादिरूपा वा तां, तथा द्रव्यं गणिमधरिमादि आदिशब्दात्तत्तद्गतानेकभेदग्रहस्तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेनागतं सम्पन्नो य उत्क पोऽर्थवृद्धिरूपस्तं मुक्त्वा शेषं न गृह्णीयात्, कोऽर्थः ? यदि कथञ्चित् पूगफलादिद्रव्याणां क्षयाद्विगुणादिलाभः स्यात्तदा तमदुष्टाशयतया गृह्णाति, न त्वेतच्चिन्तयेत् - सुन्दरं जातं, यत्पूगफलादीनां क्षयोऽभूदिति । तथा निपतितमपि परसत्कं जानन्न गृह्णीयात्, कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिन्दितो लाभः स एव ग्राह्य" इत्युक्तमायपञ्चाशकवृत्तौ । तथा कूटतुलामानन्यूनाधिक| वाणिज्यरसमेलवस्तुमेलानुचितकलान्तरग्रहणला मदानग्रहण कूट कर कर्षणकूटघृष्टनाणकाद्यर्पणपरकीयक्रयविक्रयभञ्जनपरकीय ग्राहकव्युग्राहण वर्णिकान्तरदर्शन सान्धकारस्थान वस्त्रादिवाणिज्यमपी भेदादिभिः सर्वथा परवञ्चनं वर्ज्य । यतः “विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्यहो मोहविजृम्भितानि ॥१॥” इति । खामिमित्रविश्वस्त देव गुरुवृद्धबालद्रोहन्यासापहारादीनि तु तद्वत्याप्रायाणि महापातकानि सर्वथा विशिष्य वर्जनीयानि । इह पापं द्विधा, गोप्यं स्फुटं च । गोप्यमपि द्विधा, लघु महच्च । तत्र लघु कूटतुलामानादि, महद्विश्वासघातादि । स्फुटमपि द्विधा - कुलाचारेण निर्लज्जत्वादिना च । कुलाचारेण गृहिणामारम्भादि, म्लेच्छादीनां हिंसादि च । निर्लज्जत्वादिना तु यतिवेषस्य हिंसादि, तत्र निर्लज्जत्वादिना स्फुटेऽनन्तसंसारित्वाद्यपि, प्रवचनोड्डाहादेर्हेतुत्वात्, कुलाचारेण पुनः स्फुदे स्तोकः कर्मबन्धो,
For Private & Personal Use Only
jainelibrary.org