________________
संग्रह.
व्यवहरति, तदा सत्यवादिभिरेव सह, कलान्तरमपि देशकालाद्यपेक्षयैकदिकत्रिकचतुष्कपञ्चकवृद्ध्यादिरूपं विशिष्टजनानिन्दितमेव ग्राह्य, खयं वा वृद्ध्या धने गृहीते तदायकस्यावधेः प्रागेव देयं, जातु धनहान्या|दिना तथाऽशक्तोऽपि शनैःशनैस्तदर्पण एव यतते, अन्यथा विश्वासहान्या व्यवहारभङ्गप्रसङ्गः, ऋणच्छेदे च न विलम्बनीयं, तदुक्तम्-"धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥१॥"खनिर्वाहाक्षमतया ऋणदानाशक्तेन तृत्तमर्णगृहे कर्मकरणादिनापि ऋणमुच्छेद्यम्, अन्यथा भवान्तरे तद्गृहे कर्मकरमहिषवृषभकरभरासभादित्वस्यापि सम्भवात्, उत्तमर्णेनापि सर्वथा ऋणदानाशक्तो न याच्यो, मुधाऽऽर्तध्यानक्लेशपापवृद्धयादिप्रादुर्भावात्, किंतु यदा शक्नोषि तदा दद्या नो चेदिदं मे धर्मपदे भूयादिति वाच्यो नतु ऋणसंबन्धश्चिरं स्थाप्यः, तथा सत्यायुःसमाप्तौ भवान्तरे द्वयोमिथासम्बन्ध
वैरवृद्ध्याद्यापत्तेः, अन्यत्रापि व्यवहारे निजखस्यावलने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिनाऽतः साधर्मिकैरेव + सह मुख्यवृत्त्या व्यवहारो न्याय्यस्तत्पार्श्वे स्थितस्य निजखस्य धर्मोपयोगित्वसम्भवात्, तथा परमत्सरमपि
न कुर्यात्, कर्मायत्ता हि भूतयः, किं मुधा मत्सरेण ? भवद्वयेऽपि दुःखकरेण, तथा धान्यौषधवस्त्रादिवस्तुविक्रयाा(ा)वपि दुर्भिक्षव्याधिवृद्धिवस्त्रादिवस्तुक्षयादि जगदुःखकृत्सर्वथा नाभिलषेत्, नापि दैवात्तजातमनुमोदेत, मुधा मनोमालिन्याद्यापत्तेः । तदाहुः-"उचिर्भ मुत्तूण कलं, दवाइकमागयं च उक्करिसं । निवडिअमवि जाणतो, परस्स संतं न गिहिजा ॥१॥ व्याख्या-उचितं कलाशतं प्रति चतुष्कपञ्चकवृद्ध्या
48
॥ १९७॥
Jain Education International
For Private
Personal Use Only
R
ainelibrary.org