________________
दीनां ५ सेवया सेवकानां ६ भिक्षया भिक्षाचराणां एषु च वणिजां वाणिज्यमेव मुख्यवृत्त्यार्थार्जनोपायः श्रेयान् । पठ्यतेऽपि-महुमहणस्स य वच्छे, न चेव कमलायरे सिरी वसइ । किंतु पुरिसाण ववसायसायरे तीर सुहडाणं ॥१॥ वाणिज्यमपि स्वसहायनीवीवलखभाग्योदयकालाद्यनुरूपमेव कुर्यादन्यथा सहसा त्रुट्या
द्यापत्तेः । वाणिज्ये व्यवहारशुद्धिश्च द्रव्यक्षेत्रकालभावभेदाचतुर्दा-तत्र द्रव्यतः पञ्चदशकर्मादानादि बह४ वारम्भादिनिदानं भाण्डं सर्वात्मना त्याज्यं, खल्पारम्भ एव वाणिज्ये यतनीयं, दुर्भिक्षादावनिर्वाहे तु यदि बह्वारम्भं खरकर्माद्यप्याचरति, तदाऽनिच्छु: खं निन्दन सशूकतयैव करोति । यदुक्तं भावभावकलक्षणे --"वजह तिव्वारंभ, कुणइ अकामो अनिव्वहंतो अ । थुणइ निरारंभजणं, दयालुओ सव्वजीवेसुं॥१॥
धन्ना य महामुणिणो, मणसावि करंति जे न परपीडं । आरंभपावविरया, भुजंति तिकोडिपरिसुद्धं ॥ २ ॥" दि अदृष्टमपरीक्षितं च पण्यं न स्वीकार्य, समुदितं शङ्कास्पदं च समुदितैरेव ग्राद्यं, न त्वेकाकिना, विषमपाते
तथैव साहायकादिभावात् । क्षेत्रतः स्खचक्रपरचक्रमान्द्यव्यसनापद्रवरहिते धर्मसामग्रीसहिते च क्षेत्रे 18|व्यवहार्य, न त्वन्यत्र बहुलाभेऽपि । कालतोऽष्टाहिकात्रयपर्वतिथ्यादौ व्यापारस्त्याज्यस्तथा वर्षादिकालविरु-131
द्धोऽपि व्यापारस्त्याज्यः । भावतस्त्वनेकधा क्षत्रियादि(भिः)सायुधैः सह व्यवहारः स्वल्पोऽपि प्रायो न गुणाय, उद्धारके च नटविटादिविरोधकारिभिः सह न व्यवहार्य, कलान्तरव्यवहारोऽपि समधिकग्रहणकादानादिनैवोचितोऽन्यथा तन्मार्गणादिहेतुक्लेशविरोधधर्महान्याद्यनेकानर्थप्रसङ्गात्, अनिर्वहंस्तु यदि उद्धारके
PASSANAISAIRA
Jain Education
i
al
For Private Personel Use Only