SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ दीनां ५ सेवया सेवकानां ६ भिक्षया भिक्षाचराणां एषु च वणिजां वाणिज्यमेव मुख्यवृत्त्यार्थार्जनोपायः श्रेयान् । पठ्यतेऽपि-महुमहणस्स य वच्छे, न चेव कमलायरे सिरी वसइ । किंतु पुरिसाण ववसायसायरे तीर सुहडाणं ॥१॥ वाणिज्यमपि स्वसहायनीवीवलखभाग्योदयकालाद्यनुरूपमेव कुर्यादन्यथा सहसा त्रुट्या द्यापत्तेः । वाणिज्ये व्यवहारशुद्धिश्च द्रव्यक्षेत्रकालभावभेदाचतुर्दा-तत्र द्रव्यतः पञ्चदशकर्मादानादि बह४ वारम्भादिनिदानं भाण्डं सर्वात्मना त्याज्यं, खल्पारम्भ एव वाणिज्ये यतनीयं, दुर्भिक्षादावनिर्वाहे तु यदि बह्वारम्भं खरकर्माद्यप्याचरति, तदाऽनिच्छु: खं निन्दन सशूकतयैव करोति । यदुक्तं भावभावकलक्षणे --"वजह तिव्वारंभ, कुणइ अकामो अनिव्वहंतो अ । थुणइ निरारंभजणं, दयालुओ सव्वजीवेसुं॥१॥ धन्ना य महामुणिणो, मणसावि करंति जे न परपीडं । आरंभपावविरया, भुजंति तिकोडिपरिसुद्धं ॥ २ ॥" दि अदृष्टमपरीक्षितं च पण्यं न स्वीकार्य, समुदितं शङ्कास्पदं च समुदितैरेव ग्राद्यं, न त्वेकाकिना, विषमपाते तथैव साहायकादिभावात् । क्षेत्रतः स्खचक्रपरचक्रमान्द्यव्यसनापद्रवरहिते धर्मसामग्रीसहिते च क्षेत्रे 18|व्यवहार्य, न त्वन्यत्र बहुलाभेऽपि । कालतोऽष्टाहिकात्रयपर्वतिथ्यादौ व्यापारस्त्याज्यस्तथा वर्षादिकालविरु-131 द्धोऽपि व्यापारस्त्याज्यः । भावतस्त्वनेकधा क्षत्रियादि(भिः)सायुधैः सह व्यवहारः स्वल्पोऽपि प्रायो न गुणाय, उद्धारके च नटविटादिविरोधकारिभिः सह न व्यवहार्य, कलान्तरव्यवहारोऽपि समधिकग्रहणकादानादिनैवोचितोऽन्यथा तन्मार्गणादिहेतुक्लेशविरोधधर्महान्याद्यनेकानर्थप्रसङ्गात्, अनिर्वहंस्तु यदि उद्धारके PASSANAISAIRA Jain Education i al For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy