SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ पार्थिवस्थानीयायास्तीर्थकरप्रतिमाया भक्तिनिमित्तं चैत्यायतनं साधवः प्रविशन्ति, नतु तत्रैव तिष्ठन्ति इति तद्वृत्तिः । कुत इत्याह-दुन्भिगन्धपरि(मल)स्सावी, तणुरप्पेसण्हाणिआ। दुहा वाउवहो चेव, तेण टुंति न चेहए ॥३॥ तिन्नि वा कहई जाव, थुइओ तिसिलोइआ। ताव तत्थ अणुण्णार्य, कारणेण परेणवि । (तिस्रः स्तुतयः कायोत्सर्गानन्तरं या दीयन्ते ता यावत्कर्षति भणतीत्यर्थः । किंविशिष्टाः ? तत्राह-विश्लोकिकाः त्रयः श्लोकाः छन्दोविशेषरूपा आधिक्येन यासु तास्तथा 'सिद्धाणं बुद्धाणं' इत्येकः श्लोको 'जो देवाणवि' इति द्वितीयः 'इकोवि नमोकारों' इति तृतीयः इति, अग्रेतनगाथाद्वयं स्तुतिश्च चतुर्थी गीतार्थाचरणेनैव क्रियते, गीतार्थाचरणं तु मूलगणधरभणितमिव सर्व विधेयमेव सर्वैरपि मुमुक्षुभिरिति) एतयोर्भावार्थ:-[साधवश्चैत्यगृहे न तिष्ठन्ति, अथवा चैत्यवन्दनान्त्यशक्रस्तवाद्यनन्तरं तिस्रः स्तुतीः श्लोकत्रयप्रमाणाः प्रणिधानार्थे यावत् कर्षन्ति, प्रतिक्रमणानन्तरं मङ्गलार्थे स्तुतित्रयपाठवत्, तावचैत्यगृहे साधूनामनुज्ञातं निष्कारणं न परतः, सिद्धाणमित्यादिश्लोकत्रयमात्रान्तपाठे तु सम्पूर्णवन्दनाभाव एव (प्रसजति),श्लोकत्रयपाठानन्तरं चैत्यगृहे अवस्थानाननुज्ञातेन प्रणिधानासद्भावात्, भणितं चागमे वन्दनान्ते प्रणिधानं, यथा 'वंदइ नमसइ'त्ति सूत्रं वृत्तिः-वन्दते ताः प्रतिमाश्चैत्यवन्दनादिविधिना प्रसिद्धन, नमस्करोति पश्चात्प्रणिधानादियोगेनेति तिस्रः स्तुतयोऽत्र प्रणिधानवरूपा ज्ञेयाः । सर्वथा परिभाव्यं अत्र पूर्वापराविरोधेन प्रवचनगाम्भीर्य मुक्त्वा|ऽभिनिवेशमिति सद्याचारवृत्तौ] इति । तावत्कालमेव जिनमन्दिरेऽनुज्ञातमवस्थानं यतीनां, कारणेन पुन *BACAAAAAAAAAAA JainEducational For Private Personal use only A jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy