________________
धर्म
॥ १९४ ॥
Jain Education
वलोक्य श्रमणलिङ्गं साधुलिङ्गं किं पुनः कर्त्तव्यं श्रमणेन साधुना ? । एवं चोदकेन पृष्टः सन्नाचार्यः प्राह- अप्पुव्वं दहूणं, अन्भुट्ठाणं तु होइ कायव्वं । साहुंमि दिट्ठपुब्बे, जहारिहं जस्स जं जोग्गं ॥ २ ॥ अदृष्टपूर्व साधुं दृष्ट्वाssभिमुख्येन अभ्युत्थानं आसनत्यागलक्षणं तुशब्दाद्दण्डकादिग्रहणं च कर्त्तव्यं, किमिति ? कदाचिदाचार्यादिर्विद्यातिशयसम्पन्नः तत्प्रदानायैवागतो भवेत्, प्रशिष्य सकाशमाचार्यकालिकवत्, स खल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति । तथा दृष्टपूर्वास्तु द्विप्रकाराः - उद्यतविहारिणः शीतलविहारिणश्च तत्रोद्यतविहारिणि दृष्टपूर्वे यथायोग्यं अभ्युत्थानवन्दनादि यस्य बहुश्रुतादेर्यद्योग्यं तत्कर्त्तव्यं भवति । यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनानुत्सर्गतः किञ्चित्कर्त्तव्यमिति । साम्प्रतं कारणतः शीतलविहारिगतविधिप्रतिपादनाय सम्बन्धगाधामाह-मुक्कधुरासंपाडगसेवी चरणकरणपन्भट्टे । लिंगावसेसमेत्ते, जं कीरइ तं पुणो वोच्छं ॥३॥ मुक्ता संयमधूर्येन सः, सम्प्रकटं प्रवचनोपघातनिरपेक्षमेव मूलोत्तरगुणजालं प्रतिसेवितुं शीलमस्येति, ततो इन्द्रः । एतेन सालम्बनप्रतिसेवी वन्द्य एवेत्यापन्नं । उक्तमपि कल्पभाष्ये पार्श्वस्थानां वन्द्यावन्यत्वविवेकप्रस्तावे - संकिन्नवराहपदे, अणाणुतावी अ होह अवरद्धे । उत्तरगुणपडिसेवी, आलंबणवज्जिओ वज्जो ॥ १ ॥ मूलगुणप्रतिसेवी नियमादचारित्री, स च स्फुटमेवावन्दनीय इति न तद्विचारणा, उत्तरगुणसेविनस्तु विचा| रणेतिभावः । नन्वेवमर्थादापन्न सालम्बन उत्तरगुणप्रतिसेव्यपि वन्दनीयः ? सूरिराह-न केवलं स एव वन्द्यः, किंतु मूलगुणप्रतिसेव्यप्यालम्बनसहितः, कथमितिचेद् !, उच्यते-हिट्ठट्ठाणठिओविहु, पावयणि गणट्टया उ
For Private & Personal Use Only
संग्रह.
॥ १९४ ॥
Jainelibrary.org