SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Jain Education शरीरेण यूयं ? न बाधते वः कश्चिद्व्याधि: ? न प्रयोजनं किञ्चिदौषधादिना ? नार्थः कश्चित्पथ्यादिना ? इत्यादि । | एवंप्रश्नश्च महानिर्जरा हेतुर्यदुक्तम् - अभिगमणवंदणनमंसणेणं पडिपुच्छणेण साहूणं । चिरसंचिअंपि कम्मं, खणेण विरलत्तणमुवेइ ॥ १ ॥ इति । प्राग्वन्दनावसरे सामान्यतः सुहराई सुहत पसरीरनिराबाधेत्यादिप्रश्नकरणेऽपि विशेषेणात्र प्रश्नः सम्यक् खरूपपरिज्ञानार्थस्तदुपायकरणार्थश्चेति प्रश्नपूर्व निमन्त्रणं युक्तिमदेवेति सम्प्रति त्विदं निमन्त्रणं गुरूणां बृहद्वन्दनदानानन्तरं श्राद्धाः कुर्वन्ति, येन च प्रतिक्रमणं गुरुभिः सह कृतं, स सूर्योदयादनु यदा खगृहादौ याति तदा तत्करोति, येन च प्रतिक्रमणं वृहद्वन्दनकं चेत्युभयमपि न कृतं, तेनापि वन्दनाद्यवसरे एवं निमन्त्रणं क्रियते, ततश्च यथाविधि साध्वादिचतुर्विधं सङ्घ वन्दते इत्युक्तं श्रावकदिनकृत्ये, तथाच तद्रन्थः- “साहुसाहुणिमाईणं, काऊणं च जहोचिअं । समणोवासगमाईणं, वंदे वंदेति जंप ॥ १ ॥ वृत्तिः यथा साधुसाध्व्यादीनां आदिशब्दादद्वमग्ना (सन्ना) नां च निश्राकृते चैत्ये तेषामपि भावात्, यथोचितं यथायोग्यं, वन्दनछोभवन्दनवागनमस्कारादिकं कृत्वा, यतोऽवमग्नानामपि कारणेन सूत्रे नमस्कारादेरुक्तत्वात्, यदार्ष चोदकप्रश्नपूर्वकं यतिमाश्रित्य - 'जइ लिंगमप्पमाणं, न नज्जई निच्छएण को भावो । दहूण समणलिंगं, किं कायव्यं तु समणेणं १ ॥ १ ॥ व्याख्या-यदि लिङ्गं द्रव्यलिङ्गमप्रमाणं अकारणं वन्दनप्रवृत्तौ इत्थं तर्हि न ज्ञायते नावगम्यते, निश्चयेन परमार्थेन, छद्मस्थेन जन्तुना कस्य को भावः, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयम (त) वच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति । तदेवं (वम) व्यवस्थितं दृष्ट्वाऽ For Private & Personal Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy