________________
23455295
चानाभोगसहसाकाराद्याकारचतुष्कं चिन्त्यते, ततोऽनाभोगादिना नियमितवस्तुग्रहणे भङ्गो न स्यात्, किन्त्वतिचारमात्र, ज्ञात्वा त्वंशमात्रग्रहणेऽपि भङ्ग एव । जातु दुष्कर्मपारवश्येन ज्ञात्वाऽपि नियमभङ्गोऽग्रतः स पाल्य एव धर्मार्थिना । प्रतिपन्नपञ्चमीचतुर्दश्यादितपोविशेषेणापि तपोदिने तिथ्यन्तरभ्रान्त्यादिना सचित्तजलताम्बूलभक्षणकियोजनादौ कृते तपोदिनज्ञाने मुखान्तःस्थमपि न गिलनीयं, किंतु तत्त्यक्त्वा प्रासुकवारिणा मुखशुद्धिं विधाय तपोरीत्यैव स्थेयं, यदिच तद्दिने पूर्ण भुक्तं तदा दितीयदिने दण्डनिमित्तं तत्तपः कार्य, तपःसमाप्तौ च तत्तपो वर्द्धमानं कार्य, एवं चातिचारः स्यात् नतु भङ्गः, तपोदिनज्ञानानन्तरं सिक्थादिमात्रगिलने तु भङ्ग एव, दिनसंशये कल्प्याकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गः स्यात्, तथाऽऽगाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्तुं न शक्यते, तदापि तुर्याकारोच्चारान्न भङ्ग इत्या| दिविवेकः श्राद्धविधिगतो ज्ञेय इत्यलं प्रसङ्गेन ॥ ६३ ॥ अथ प्रत्याख्यानकरणानन्तरं यत्कर्त्तव्यं तदाह
धर्मोपदेशश्रवणमशनादिनिमत्रणम् । गत्वा यथोचिते स्थाने, धर्म्यमर्थार्जनं तथा ॥ ६४ ॥ धर्म:-श्रुतचारित्रलक्षणस्तस्योपदेशो-देशना तस्येति योगः [श्रवणं अतिर्विशेषतो गृहिधर्मो भवतीति योगः], एवमग्रेऽपि, धर्मश्रवणादेव हि श्रावकशब्दोऽन्वेति, तद्विधिस्त्वेवं दिनकृत्ये-नासन्ने नाइदूरंमि, नेव उच्चासणे विऊ । समासणं च वजिजा, चिट्ठिज्जा धरणीअले ॥१॥ न पक्खओ न पुरओ, नेव किच्चाण
ध. सं.३३४
Jain Education
For Private 3. Personel Use Only
Jainelibrary.org