________________
घयं तहा तेल्लमेव गुड मज । महु मंसं चेव तहा, उग्गाहिमगं च विगईओ ॥१॥" तत्र पश्च क्षीराणि गोमहिष्यजोष्टैलकासम्बन्धिभेदात् । दधिनवनीतघृतानि च चतुर्भेदानि उष्ट्रीणां तदभावात् । तैलानि चत्वारितिलातसीलदासर्षपसम्बन्धिभेदात्, शेषतैलानि तु न विकृतयः, लेपकृतानि तु भवन्ति । गुडः इक्षुरसकाथः, स द्विधा-पिण्डो द्रवश्च । मद्यं वेधा-काष्ठपिष्टोद्भवत्वात् । मधु त्रेधा-माक्षिकं कौन्तिकं भ्रामरं च । मांसं |त्रिविधं-जलस्थलखचरजन्तूद्भवत्वात्, अथवा मांसं त्रिविधं-चर्मरुधिरमांसभेदात्, अवगाहेन लेहबोलनेन निवृत्तं अवगाहिमं पक्कान्नं, भावादिम(श्रीसि-६-४-२१)इतीमः । यत्तापिकायां घृतादिपूर्णायां चलाचलं खाधकादि पच्यते, तस्यामेव तापिकायां तेनैव घृतेन द्वितीयं तृतीयं च खाद्यकादि विकृतिः, ततः परं पका-1 नानि,अयोगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते । अथैकेनैव पूपकेन तापिका पूर्यते, तदा वितीयं पक्कानं, निर्विकृतिप्रत्याख्यानेऽपि कल्पते, लेपकृतं तु भवतीत्येषा वृद्धसामाचारी । एवं शेषाण्यपि विकृतिगतानि, तानि चामूनि-"अह पेया १ दुद्धट्टी २ दुद्धवलेही य ३ दुद्धसाडी य४। पंच य विगइगयाई, दुद्धंमी खीरसहियाई ५।१॥ अंबिलजुअंमि दुद्धे, दुद्दी दक्खमीसरद्धंमि । पयसाडी तह तंदुलचुण्णयसिद्धमि अवलेही ॥२॥” व्याख्या-अल्पतन्दुलसहिते दुग्धे राद्धे पेयोच्यते १, अम्लयुते तु दुग्धाटी, अन्ये तु बहलि(लिहि)कामाहुः २, तन्दुलचूर्णयुते चावलेखिका ३, द्राक्षासहिते पयःशाटी ४, बहुतन्दुलयुक्ते च दुग्धे राद्धे क्षरेयीति पञ्च दुग्धविकृतिगतानि, विकृतिर्गता एवि(भ्य इ)ति विकृतिगतानि निर्विकृतिकानीत्यर्थः । “दहिए
Jain Education
a
l
For Private & Personel Use Only
G
M .jainelibrary.org