________________
संग्रह
धर्म- 18| आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सवसमाहिवत्तियागा
रेणं वोसिरई"। ननु दिवसचरमप्रत्याख्यानं निष्फलं, एकाशनादिप्रत्याख्यानेनैव गतार्थत्वात्, नैवं, एका॥ १८९॥ शनादिकं ह्यष्टाद्याकारमेव, एतच्च चतुराकारमत आकाराणां सङ्केपकरणात् सफलमेव, अत एवैकाशनादिकं ।
देवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधेन यावजीवं प्रत्याख्यातत्वात्, गृहस्थापेक्षया पुनरिदमा|दित्योद्गमान्तं, दिवसस्याहोरात्रमितिपर्यायतयापि दर्शनात्, तत्र च येषां रात्रिभोजननियमोऽस्ति, तेषाम
पीदं सार्थकं, अनुवादत्वेन स्मारकत्वात् । भवचरमं तु याकारमपि भवति, यदा जानाति महत्तरसर्वसमा|धिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनं तदा अनाभोगसहसाकाराकारी भवतः, अमुल्यादेरनाभोगेन सहसाकारेण वा मुखप्रक्षेपसम्भवात्, अत एवेदमनाकारमप्युच्यते, आकारद्वयस्यापि परिहार्यत्वात् । अथाभिग्रहप्रत्याख्यानम्, तच्च दण्डप्रमार्जनादिनियमरूपं, तत्र चत्वार आकारा भवन्ति, तद्यथा-"अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरई" । यदा त्वप्रावरणाभिग्रहं गृह्णाति, तथा(दा)'चोलपट्टगागारेणं' इति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः । अथ विकृतिप्रत्याख्यानम्-तत्र नवाष्टौ वा आकाराः, यत्सूत्रम्-“विगईओ पचक्खाइ, अण्णत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरह" मनसो विकृतिहेतुत्वात् विकृतयस्ताश्च दश, यदाहु:-"खीरं दहि णवणीयं,
**JAMAISASASAASAASAS
१८९॥
Jain Education inine
For Private & Personel Use Only
w.jainelibrary.org