________________
SONUSALAMAU
इत्याह, भक्तेन भोजनेनार्थः प्रयोजनं भक्तार्थः न भक्तार्थोऽभक्तार्थः, अथवा न विद्यते भक्ताओं यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास इत्यर्थः । आकाराः पूर्ववत्, नवरं 'पारिष्ठापनिकाकारे विशेषः-यदि त्रिविधाहारस्य प्रत्याख्याति, तदा पारिष्ठापनिकं कल्पते, यदि च चतुर्विधाहारस्य प्रत्याख्याति, पानकं च नास्ति, तदा न कल्पते, पानके तुद्धरिते कल्पते । 'वोसिरई' इति भक्तार्थमशनादि च व्युत्सृजति । अथ पानकम्-तत्र पौरुषीपूर्वार्द्वकाशनकस्थानाचामाम्लाभक्तार्थप्रत्याख्यानेषूत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं न्याय्यं, यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानकमाश्रित्य षडाकारा भवन्ति । यत्सूत्रम्-"पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरह" इहान्यत्रेत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वाद् 'लेवाडेण वत्ति' कृतलेपारा पिच्छिलत्वेन भाजनादीनामुपलेपकात्खघुरादिपानकादन्यत्र तर्जयित्वेत्यर्थः, त्रिविधाहारं व्युत्सृजतीतियोगः, वाशब्दो लेपकृतपानकापेक्षया अवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव लेपकारिणाप्युपवासादेन भङ्ग इति भावः। ०७०००। एवमलेपकृतादा अपिच्छिलात्सौवीरादेः, अच्छादा निर्मलादुष्णोदकादेः, बहुलादा गडुलात्तिलतन्दुलधावनादेः, ससिक्थादा भक्तपुलाकोपेतावश्रावणादेः, असिक्थाद्वा सिक्थवर्जितात्पानकाहारात् । अथ चरमम्-चरमोऽन्तिमो भागः, स च दिवसस्य भवस्य चेति द्विधा, तद्विषयं प्रत्याख्यानमपि चरमं, इह भवचरमं यावज्जीवं, तत्र विविधेऽपि चत्वार आकारा भवन्ति । यत्सूत्रम्-"दिवसचरमं भवचरमं वा पञ्चक्खाइ, चउन्विहंपि
L ANAGALA
Jain Education in
For Private & Personel Use Only
A
jainelibrary.org