________________
धर्म
॥ १८८ ॥
Jain Education
व्वसमाहिवत्तिआगारेणं वोसिरह' आचामोऽवश्रावणं, अम्लं चतुर्थी रसः, त एव प्रायेण व्यञ्जने यत्र भो जने ओदनकुल्माषसक्तुप्रभृतिके तदाचामाम्लं समयभाषयोच्यते, तत्प्रत्याख्याति आचामाम्लप्रत्याख्यानं करोतीत्यर्थः । आद्यावन्त्याश्च त्रय आकाराः पूर्ववत्, 'लेवालेवेणं' लेपो भोजनभाजनस्य विकृत्या तीमनादिना वा आचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो विकृत्यादिना लिप्तपूर्वस्य भोजन भाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चालेपश्च लेपालेपं तस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः । 'उक्खित्तविवेगेणं' शुष्कोदनादिभक्ते पतित पूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्योत्क्षिप्तस्योद्वृत्तस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः उत्क्षिप्य त्याग इत्यर्थः तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि न भङ्ग इति भावः यत्तूत्क्षेप्तुं न शक्यं तस्य भोजने भङ्गः । 'गिहत्थसंसद्वेणं' गृहस्थस्य भक्तदायकस्य सम्बन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलितं गृहस्थसंसृष्टं ततोऽन्यत्र, विकृत्यादिसंसृष्टभाजनेन हि दीयमानं भक्तमकल्प्यद्रव्यावयवमिश्रं भवति, न च तद्भुञ्जानस्यापि भङ्गः, यद्यकल्प्यद्रव्यरसो बहु न ज्ञायते । 'वोसिरह' इति अनाचामाम्लं चतुर्विधाहारं च व्युत्सृजति । | अथाभक्तार्थप्रत्याख्यानं तत्र पञ्चाकाराः, यत्सूत्रम् — 'सूरे उग्गए अभत्तङ्कं पञ्चकखाइ, चउव्विपि आहारं असणं पाणं वाइमं साइमं, अन्नत्थणा भोगेणं सहसागारेणं पारिट्ठावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरह", 'सूरे उगए' सूर्योद्गमादारभ्य, अनेन च भोजनानन्तरं प्रत्याख्यानस्य निषेध
For Private & Personal Use Only
संग्रह
11864 11
v jainelibrary.org