________________
Jain Education In
नस्यापि न भङ्गः, गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति तदा हि सागारिका 'आउंटणपसारणेणं' आउण्टणं आकुञ्चनं जङ्घादेः सङ्कोचनं, प्रसारणं च तस्यैवाऽऽकुञ्चितस्य ऋजुकरणं, आकुञ्चने प्रसारणे चासहि ष्णुतया क्रियमाणे किञ्चिदासनं चलति ततोऽन्यत्र । 'गुरुअन्भुट्ठाणेणं' गुरोरभ्युत्थानार्हस्याचार्यस्य प्राघूर्ण - कस्य वाभ्युत्थानं प्रतीत्यासनत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्र, अभ्युत्थानं चावश्यकर्त्तव्यत्वाद्भुञ्जानेनापि कर्त्तव्यमिति न तत्र प्रत्याख्यानभङ्गः । 'पारिट्ठावणियागारेणं' साधोरेव, यथा परिष्ठापनं सर्वथा त्यजनं प्रयोज नमस्य पारिष्ठापनिकमन्नं तदेवाकारः पारिष्ठापनिकाकारस्ततोऽन्यत्र । तत्र हि त्यज्यमाने बहुदोषसम्भवादाश्रीयमाणे चागमिकन्यायेन गुणसम्भवाच्च तस्य गुर्वाज्ञया पुनर्भुञ्जानस्य न भङ्गः 'विहिगहिअं विहिभुत्तं, उद्धरिअं जं भवे असणमाई । तं गुरुणाणुन्नायं, कप्पड़ आयंबिलाईणं ॥ १ ॥ श्रावकस्त्वखण्डसूत्रत्वादुच्चरति । 'वोसिरह' इति अनेकासनमनेकाशनाद्याहारं च परिहरति । अथैकस्थानकम् - तत्र सप्ताकाराः, अथ सूत्रम् 'एगट्ठाणं पञ्चक्खाई' इत्याद्येकासनवदाकुञ्चनप्रसारणाकारवर्ज, एकमद्वितीयं स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानं यद्यथा भोजनकालेऽङ्गोपाङ्गं स्थापितं तस्मिंस्तथा स्थापित एव भोक्तव्यं, मुखस्य पाणेश्चाशक्य परिहारत्वाच्चलनं न प्रतिषिद्धं, आकुञ्चनप्रसारणाकारवर्जनं च एकाशनतो भेदज्ञापनार्थम्, अअन्यथा एकाशनमेव स्यात् । अथाचामाम्लं तत्राष्टावाकाराः अथ सूत्रम् — 'आयंबिलं पच्चक्खाइ, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं पारिट्ठावणियागारेणं महत्तरागारेणं स
For Private & Personal Use Only
jainelibrary.org