SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥१८७॥ खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सब्वसमाहिवत्तिआगारेणं वोसिरई" पूर्व च तदर्धं च पूर्वार्द्ध दिनस्याचं प्रहरद्वयं, पूर्वार्द्ध प्रत्याख्याति पूर्वार्द्धनत्याख्यानं करोति, षडाकाराः पूर्ववत्, 'महत्तरागारेणं' इति महत्तरं-प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसङ्घादिप्रयोजनं तदेवाकार:-प्रत्याख्यानापवादो महत्तराकारस्तस्मादप्यन्यत्रेति योगः।यचात्रैव महत्तराकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्याल्पत्वं महत्त्वं च कारणमाचक्षते। अथैकाशनप्रत्याख्यान-तत्राष्टावाकाराः, यत्सूत्रं-"एगासणं पच्चक्खाइ, चउविहंपि आहारं ४ असणं पाणं खाइमं साइम,अन्नत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंदणपसारणेणं गुरुअन्भुट्ठा णेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह" एक सकृदशनं भोजनमेकं वाऽऽसनं पुताचालनतो यत्र तदेकाशनमेकासनं च, प्राकृते योरपि एगासणमितिरूपं, तत्प्रत्याख्याति एकाशनप्रत्याख्यानं करोतीत्यर्थः, अत्राद्यावन्त्यौ च द्वावाकारी(च) पूर्ववत्, 'सागारियागारेणं' सह अगारेण वर्तते इति सागारः, स एव सागारिको-गृहस्थः स एवाकार:-प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र, गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसम्भवात्, अत एवोक्तं 'छक्कायदयावंतोऽवि, संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे, दुगुंछिए पिंडगहणे य॥१॥ ततश्च भुञानस्य यदा सागारिकः समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा खाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुजा ॥१८७॥ Jain Education Dena For Private Personel Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy