________________
साम्प्रतं सूत्रशेषो व्याख्यायते-पौरुषी प्रत्याख्याति पौरुषी प्रत्याख्यानं करोतीत्यर्थः, कथं? चतुर्विधमशनपानखाद्यखाद्यलक्षणम्, आहारं अभ्यवहार्य, व्युत्सृजतीत्युत्तरेण योगः। अत्र च षडाकाराः, प्रथमौ धौ पूर्ववत्, अन्यत्र प्रच्छन्नकालात् साधुवचनात् दिग्मोहात् सर्वसमाधिप्रत्ययाकाराच्च । प्रच्छन्नता च कालस्य यदा मेघेन रजसा गिरिणा वान्तरितत्वात्सूरो न दृश्यते, तत्र पौरुषी पूर्णी ज्ञात्वा भुञानस्यापूर्णायामपि तस्यां न भङ्गः, ज्ञात्वा त्वर्द्धभुक्तेनापि तथैव स्थातव्यं, यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यं, न पूर्णेति ज्ञाते भुञानस्य भङ्ग एव । दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति, तदा अपूर्णायामपि पौरुष्यां मोहा
झुञानस्य न भङ्गो, मोहविगमे तु पूर्ववर्द्धभुक्तेनापि स्थातव्यं, निरपेक्षतया भुञानस्य भङ्ग एवेति । साधुदवचनं उद्घाटापौरुषीत्यादिकं विभ्रमकारणं, तच्छ्रुत्वा भुञानस्य न भङ्गः, भुञानेन तु ज्ञाते अन्येन वा क
थिते पूर्ववत्तथैव स्थातव्यं, तथा कृतपौरुषीप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया सञ्जातयोरातरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिस्तस्य प्रत्ययः-कारणं स एवाकार:-प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः समाधिनिमित्तमौषधपथ्यादिप्रवृत्तावपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्ग इत्यर्थः। वैद्यार्वाि कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदा अपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्द्धभुक्ते स्वातुरस्य समाधौ मरणे वोत्पन्ने सति तथैव भोजनस्य त्यागः । सार्द्धपौरुषीप्रत्याख्यानं पौरुषीप्रत्याख्यान
एवान्तर्भूतं । अथ पूर्वार्डप्रत्याख्यानं-"सूरे उग्गए पुरिमडं पच्चक्खाइ, चउब्विहंपि आहारं असणं पाणं घ. सं. ३२४
ROSAROKAROGRECROSAXCCCCAL-KA
थिते पूर्ववत्त सर्वथा निरासमषिधपध्यादिप्रयत्नाभित्तं यदा अपूर्ण सापौरुषीपल्वहंपि आहार
Jain Education
For Private Personel Use Only
0Aw.jainelibrary.org