SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ विधाहारस्यैव भवतीत्युक्तमेव, रात्रिभोजनतीरणप्रायवादस्य, तथा मुहर्तमानं नमस्कारोचारणावसानं च।। ननु कालस्यानुक्तत्वात् सङ्केतप्रत्याख्यानमेवेदं, मैवं, सहितशब्देन मुहूर्त्तस्य विशेषणात् । अथ मुहूर्तशब्दो न श्रूयते तत्कथं तस्य विशेष्यत्वम्?, उच्यते, अद्धाप्रत्याख्यानमध्येऽस्य पाठबलात्, पौरुषीप्रत्याख्यानस्य च वक्ष्यमाणत्वावश्यं तदर्वाग्मुहूर्त एवावशिष्यते, अथ मुहूर्तद्वयादिकमपि कुतो न लभ्यते ?, उच्यते, अल्पाकारत्वादस्य, पौरुष्यां हि षडाकारास्तदस्मिन् प्रत्याख्याने आकारद्वयवति खल्प एव कालोऽवशिष्यते, स च नमस्कारेण सहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात्, सत्यपि नमस्कारपाठे मुहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गात्, तत् सिद्धमतदु-मुहर्तमानकालं नमस्कारसहितप्रत्याख्यानमिति ।। अथ चतुर्विधाहारमेव व्यत्या प्रदर्शयति-अशनं १ पानं २ खादिमं ३ खादिमं चेति ४, तत्राश्यते इति अशनं, 'अश भोजने' इत्यस्य ल्युडन्तस्य भवति, तथा पीयत इति पानं, पाधातोः, तथा खाद्यत इति खादिमं 'खाह भक्षणे इत्यस्य वक्तव्यादिमत्प्रत्ययान्तस्य, एवं खाद्यत इति खादिम, 'खद आस्वादन इत्यस्य च रूपं अथवा खायं खाद्यं चेति।अशनाद्याहारविभागश्चैवं श्राद्धविधिवृत्तौ-"अशनं शाल्यादि सक्त्वादि पेयादि मोदकादि क्षीरादि सूरणादि मण्डादि च, यदाह 'असणं ओअणसत्तुगमुग्गजगाराइ खजगविही अ। खीराई सूरणाई, मंडगपभिई अविण्णेयं ॥१॥" पानं सौवीरयवादिधावनं सुरादि सर्वश्चाप्कायः कर्कटजलादिकं च, दयदाह-पाणं सोवीरजवोदगाई चित्तं सुराइअं चेव । आउक्काओ सब्बो, कक्कडगजलाइअं च तहा ॥२॥ ASSAULASSASUR Jain Education For Private Personel Use Only nebrar og
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy