________________
धर्म
॥ १८४ ॥
Jain Education
त्यलं प्रसङ्गेन । प्रकृतमनुसरामः । द्वारं २ । प्रत्याख्यानं चापवादरूपाकारसहितं कर्त्तव्यमन्यथा तु भङ्गः स्यात्, स च दोषाय, यदाह - "वयभङ्गे गुरु दोसो, थेवस्सवि पालणा गुणकरी उ । गुरुलाघवं च णेयं, धम्मंमि अओ अ आगारा ॥ १ ॥” आक्रियन्ते विधीयन्ते प्रत्याख्यानभङ्गपरिहारार्थमित्याकाराः, ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदर्श्यन्ते - 'दो चेव नमोक्कारे, आगारा छच्च पोरसीए उ । सत्तेव उ पुरिमहे, एगासणगंमि अट्ठेव ॥ १ ॥ सत्तेगट्ठाणस्स उ, अद्वेव य अंबिलंमि आगारा । पंचेव अभत्तट्ठे, छप्पाणे चरमि चत्तारि ॥ २ ॥ पंच य चउरोभिग्गहि, निव्वीए अट्ठ नव य आगारा । अप्पाउरणे पंच य, हवंति सेसेसु चत्तारि ॥ २ ॥' निर्विकृतौ अष्ट नव च कथं ? 'नवणीओगाहिमए, अद्दवदहिपिसिअघणगुडे चेव । नव आगारा एसिं, सेसदवाणं तु अट्ठेव ॥ ३ ॥' अप्रावरणे चोलपट्टाकारः पञ्चमः । विवरणं तु सूत्रव्याख्यासह गतमेवावसेयं । द्वारं ३ । साम्प्रतं सूत्रार्थी - "उग्गए सूरे नमुक्कारसहिअं पञ्चकखाइ, चउव्विहंपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं वोसिरह” व्याख्या - उगते सूर्ये, सूर्यो गमादारभ्येत्यर्थः, नमस्कारेण परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं प्रत्याख्याति 'सर्वे धातवः करोत्यर्थेन व्याप्ता' इति न्यायात् नमस्कारसहितं प्रत्याख्यानं करोति विधेयतयाऽभ्युपगच्छतीत्यर्थः । इदं गुरोरनुवादभङ्गया वचनं, शिष्यस्तु प्रत्याख्यामीत्याह । एवं व्युत्सृजती [त्यत्रापि वाच्यं । कथं प्रत्याख्याति ? इत्याह - चतुर्विधमप्याहारमिति न पुनरेकविधादिकं, आहारमभ्यवहार्य, व्युत्सृजती ]त्युत्तरेण योगः । इदं च चतु
For Private & Personal Use Only
संग्रह.
॥ १८४ ॥
jalnelibrary.org