________________
Jain Education In
च
तत्र प्रत्याख्यानो चारस्थानानि पञ्च- आयस्थाने नमस्कारसहितादिकालप्रत्याख्यानानि ५ सङ्केताख्यानि ८ च प्रायश्चतुर्विधाहाराणि १, द्वितीयस्थाने विकृतिनिर्विकृत्याचामाम्लोचारः, विकृतिप्रत्याख्यानं चास्वीकृतविकृतिनैयत्यानामपि प्रायेणाभक्ष्यविकृतिचतुष्कत्यागात् सर्वेषां स्यात् २, तृतीये एकट्यासनैकस्थाननियमो हि त्रिचतुर्विधाहारः ३, चतुर्थस्थाने पाणस्सेत्यादि ४, पञ्चमस्थाने देशावकाशिकवतं प्राग्गृहीतस चित्तादिचतुर्दशनियमसंक्षेपरूपमुच्चार्य ५ । एवमुपवासे चत्वारि प्रथमेऽभक्तार्थकरणं १, द्वितीये पानाहारप्रत्याख्यानं २, तृतीये पाणस्सेत्यादि ३, चतुर्थे देशावकाशिकमिति ४ । उक्तं च “पढमे ठाणे तेरस, बीए तिन्नि उ तिगा य तइअंमि । पाणस्स चउत्थंमि, देसवगासाइ पंचमए ॥ १ ॥" अत्र चोपवासाऽऽचामाम्लनिर्विकृत्यादीनि प्रायस्त्रिचतुर्विधाहाराणि, अपवादात्तु निर्विकृत्यादि पौरुष्यादि च द्विविधाहारमपि । नमस्कारसहितं तु चतुर्विधाहारमेव स्यादिति संप्रदायः, यत उक्तं- 'चउहाहारं तु नमो, रतिंपि मुणीण सेस दुतिचउहा । तथा 'साहूणं रयणीए, नवकारसहिअ चउव्विहाहारं । भवचरिमं उववासो, अंबिल तिहचउव्विहाहारं ॥ १ ॥ सेसा पञ्चक्खाणा, दुह तिह चउहावि हुंति आहारे । इअ पञ्चक्खाणेसुं, आहारविगप्पणा नेया ॥ २ ॥' यतिदिनचर्यायां तु संकेतप्रत्याख्यानमपि चतुर्विधाहारं प्रोक्तं तथा च तद्वचः "संकेअपचक्खाणं, साहृणं रयणिभत्तवेरमणं । तहय नवकारसहिअं, निअमेण चउव्विहाहारं ॥ १ ॥” इति ॥ निर्विकृतिकाचामाम्लादौ कल्पयाकल्प्यविभागश्च खखसामाचारीतो ज्ञेयः । प्रत्याख्यानभेदतङ्गङ्गादयस्तु व्याख्यायन्त एवे
For Private & Personal Use Only
jainelibrary.org