________________
धर्म
॥ १८२ ॥
Jain Education
4
आओ अप्पकालठिइआओ करेइ, तिब्वाणुभावाओ मंदाणुभावाओ करेइ, बहुपएसग्गाओ अप्पपएसग्गाओ करेइ, अणाइअं अणवदग्गं संसारकंतारं नो परिअई' तथा 'वंदएणं भंते! जीवे किं अजिणइ ? गोयमा ! बंदपणं नीआगोअं कम्मं खवेइ, उच्चागोअं कम्मं निबंधइ, सोहग्गं च अप्पडिहयं आणाफलं निव्वतेइत्ति' । एवं वृहद्वन्दनेन गुरून्वन्दित्वा तन्मुखेन स्वशक्त्यनुरूपं प्रत्याख्यानं करोति, अत्र 'प्रत्याख्यानानि १ तद्भङ्गा २ ssकार ३ सूत्रा ४ थे ५ शुद्धयः ६ । प्रत्याख्यानफलं ७ चाथ, किञ्चिदेवोच्यतेऽधुना ॥ १ ॥ तत्र प्रत्याख्यानं "ख्या ( ख्याक् ) प्रकथने " इत्यस्य प्रत्याङ्पूर्वस्य युड ( अनड) न्तस्य रूपं, प्रतीति प्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानं । कृत्यल्युटो बहुल (बहुलं श्रीसि-५-१-२) मितिवचनादन्यथाप्यदोषः । अथवा प्रत्याख्यायते निषिध्यतेऽनेन मनोवाक्कायजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं, क्रियाक्रियावतोः कथञ्चिद्भेदात्प्रत्याख्यानक्रियैव प्रत्याख्यानं, प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं । तच देघा - मूलगुणरूपं, उत्तरगुणरूपं च । एकैकमपि सर्वदेशभेदात् द्विविधं, सर्वमूलगुणप्रत्याख्यानं साधूनां पञ्च महात्रतानि, देशमूलगुणप्रत्याख्यानं श्राद्धानां पञ्चाणुव्रतानि । सर्वोत्तरगुणप्रत्याख्यानं च यतीनामनेकधा, यथा 'पिंडस्स जा विसोही, समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहाविअ, उत्तरगुणमो विआणाहि ॥ १ ॥ श्राजानां देशोत्तरगुणप्रत्याख्यानं सप्त शिक्षाव्रतानि, तत्र मूलगुणानां प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, उत्तरगुणानां तु पिण्डविशुद्ध्यादीनां दिखतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात्, इत्यावश्य
For Private & Personal Use Only
संग्रह.
॥ १८२ ॥
Jainelibrary.org