________________
Jain Education Int
रूपायां, एषु भक्तादिषु 'जंकिंचि' यत्किञ्चित् समस्तं सामान्यतो वा 'मज्झ' मम 'विणयपरिहीणं' विनयपरिहीनं शिक्षावियुक्तं संजातमितिशेषः । विनयपरिहीनस्यैव दैविध्यमाह 'सुमं वा बायरं वा' सूक्ष्ममल्पप्रायश्चित्तविशोध्यं, बादरं बृहत्प्रायश्चित्तविशोध्यं वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयत्वतुल्यतोद्भाबनार्थी 'तुभे जाणह' इति यूयं जानीथ सकलभाववेदकत्वात्, 'अहं न याणांमि' अहं पुनर्न जानामि मूढत्वात् तथा यूयं न जानीथ प्रच्छन्नकृतत्वादिना, अहं जानामि स्वयंकृतत्वात्, तथा यूयं न जानीथ परेण कृतत्वादिना, अहं न जानामि विस्मरणादिना, तथा यूयमपि जानीथ अहमपि जानामि द्वयोः प्रत्यक्षत्वात्, एतदपि द्रष्टव्यं । 'तस्स' तस्य षष्ठीसप्तम्योरभेदात्तस्मिन्नप्रीतिकविषये विनयपरिहीणविषये च 'मिच्छामि दुक्कड' मिथ्या मे दुष्कृतमिति खदुश्चरितानुतापसूचकं खदोषप्रतिपत्तिमूचकं वा प्रतिक्रमणमिति पारिभा षिकं वाक्यं प्रयच्छामीति शेषः, अथवा तस्येति विभक्तिपरिणामात् तदप्रीतिकं विनयपरिहीनं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्त्तते मे मम, तथा दुष्कृतं पापमिति खदोषप्रतिपत्तिरूपमपराधक्षमणमिति । क्षमयित्वा च पुनर्वन्दनकं ददाति । वन्दनपूर्वके चालोचनक्षमणे इतिकृत्वा वन्दनकानन्तरं ते व्याख्याते, अन्यथा च प्रतिक्रमणे तयोरवसर इति द्वादशावर्त्तवन्दनविधिः । अथ च गुरोर्व्याक्षिप्तत्वादिना बृहद्वन्दनकायोगे छोभवन्दनेनापि गुरून्वन्दते । वन्दनकस्य च फलं कर्मनिर्जरा, यदाहु: - 'वंदणं भंते ! जीवे किं अज्जिणइ ? गोअमा ! अट्ठकम्मपगडीओ निविडबंधणबद्धाओ सिढिलबंधणबद्धाओ करेइ, चिरकालठिइ
For Private & Personal Use Only
ninelibrary.org