________________
धर्म
॥ १८१ ॥
Jain Education In
यामि मर्षयामि इत्येका वाचना । अन्ये त्वेवं पठन्ति “इच्छामि खमासमणो! अभुट्टिओमि अभितरदेवसिअं खामेउमिति" इच्छामि-अभिलषामि क्षमयितुमितियोगः । हे क्षमाश्रमण ! न केवलमिच्छामि, किंतु अभु| हिओऽमीत्यादि पूर्ववदेव । एवं स्वाभिप्रायं प्रकाश्य तूष्णीमास्ते यावद्गुरुराह - "खा मेहेति" क्षमयखेत्यर्थः । ततः सद्गुरुवचनं बहुमन्यमानः प्राह - 'इच्छं खामीति' इच्छं- इच्छामि भगवदाज्ञां खामेमि-क्षमयामि च खापराधं, अनेन क्षमणक्रियायाः प्रारम्भमाह । ततो विधिवत्पञ्चभिरङ्गैः स्पृष्टधरणीतलो मुखवस्त्रिकया स्थगितवदनदेश इदमाह - "जंकिंचि अपत्तिअं परपत्तिअं भन्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुम्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं" व्याख्या- 'जंकिंचि' यत्किञ्चित्सामान्यतो निरवशेषं वा, 'अपत्तिअं' आर्षत्वादप्रीतिकं अप्रीतिमात्रं 'परपत्तिअं' प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहेतुकमुपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यं युष्मद्विषये मम जातं, युष्माभिर्वा मम जनितमिति वाक्यशेषः । तस्स मिच्छामीत्युत्तरेण सम्बन्धः । तथा 'भत्ते' भक्ते भोजनविषये 'पाणे' पानविषये 'विणए' विनये अभ्युत्थानादिरूपे 'वेयावच्चे' वैयावृत्त्ये औषधपथ्यादिना अवष्टम्भरूपे 'आलावे' आलापे सकृज्जल्पनरूपे 'संलापे' मिथःकथारूपे 'उच्चासणे' गुरोरासनादुच्चैरासने 'समासणे' गुर्वासनेन तुल्ये आसने 'अंतरभासाएं' अन्तर्भाषायां गुरोर्भाषमाणस्य विचाल भाषणरूपायां 'उवरिभासाएं' उपरिभाषायां गुरोर्भाषणानन्तरमेव विशेष भाषण
For Private & Personal Use Only
संग्रह.
॥ १८१ ॥
www.jainelibrary.org