________________
घ. सं. ३१
रप्ययवनतकायः प्रवर्द्धमानसंवेगो मायामदविप्रमुक्त आत्मनः सर्वातिचारविशुद्ध्यर्थं सूत्रमिदं पठति "सव्वस्सवि देवसिय दुचिंतिय दुभासिय दुचिट्ठिय इच्छाकारेण संदिसह” सर्वाण्यपि लुप्तषष्ठीकानि पदानि, | ततोऽयमर्थ:-सर्वस्यापि दैवसिकस्य अणुव्रतादिविषये प्रतिषिद्धाचरणादिना जातस्यातिचारस्येति गम्यते, पुनः कीदृशस्य ? ' दुश्चिन्तितस्य' दुष्टमार्त्तरौद्रध्यानतया चिन्तितं यत्र स तथा तस्य, दुश्चिन्तितोद्भवस्येत्यर्थः, अनेन मानसमतीचारमाह । दुष्टं सावद्यवाग्रूपं भाषितं यत्र तत्तथा तस्य, दुर्भाषितोद्भवस्येत्यर्थः, अनेन वाचिकं सूचयति । दुष्टं प्रतिषिद्धं धावनवल्गनादि कार्यक्रियारूपं चेष्टितं यत्र तत्तथा तस्य, दुश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह । अस्यातिचारस्य किमित्याह - 'इच्छाकारेण संदिसह' इति आत्मीयेच्छया मम प्रतिक्रमणाज्ञां प्रयच्छत । इत्युक्त्वा तूष्णीको गुरुमुखं प्रेक्षमाण आस्ते । ततो गुरुराह - "पडिक्कमह" प्रतिक्रामत, शिष्यः प्राह, " इच्छं” इच्छाम्येतद्भवद्वचः, "तस्स" तस्य दैवसिकातिचारस्य, “मिच्छामि दुक्कड” आत्मीयदुष्कृतं मिथ्येति, जुगुप्से इत्यर्थः । तथा द्वितीयच्छ (व)न्दनकेऽवग्रहान्तः स्थित एव विनयोऽर्द्धावनतकायः स्वापराधक्षामणां चिकीर्षुर्गुरुं प्रतीदमाह - 'इच्छाकारेण सन्दिसह' इति इच्छाकारेण स्वकीयाभिलाषेण न पुनर्बलाभियोगादिना, संदिशत आज्ञां प्रयच्छत यूयं । आज्ञादानस्यैव विषयमुपदर्शयन्निदमाह - "अभुट्टि ओऽहं अभितरदेवसिअं खामेमि” अभ्युत्थितोऽस्मि प्रारब्धोऽस्मि, अहं, अनेनान्याभिलाषमात्रस्य व्यपो| हेन क्षमणक्रियाया: प्रारम्भमाह, 'अग्भितरदेवसियं इति दिवसाभ्यन्तरसम्भवमतिचारमिति गम्यते, क्षम
Jain Education International
For Private & Personal Use Only
jainelibrary.org