SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥१८ ॥ RECENERALALIGURANGA सम्यक्त्वः प्रतिपन्नाणुव्रतश्च प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च समाचारी शृणोति इति श्रावकः, तस्य प्रायोग्य-उचितः श्रावकमायोग्यः न तथा श्रावकानुचित इत्यर्थः । अयं चातिचारः क विषये इत्याह-णाणे दंसणे चरित्ताचरित्ते इति ज्ञानविषये दर्शनविषये स्थूलसावद्ययोगनिवृत्तिभावाचारित्रं च सूक्ष्मसावद्ययोगनिवृत्त्यभावादचारित्रं च चारित्राचारित्रं तस्मिन् देशविरतिविषय इत्यर्थः । अधुना भेदेन व्याचष्टे 'सुए' श्रुतविषये श्रुतग्रहणं मत्यादिज्ञानोपलक्षणं, तत्र विपरीतप्ररूपणा अकालखाध्याय|श्चातिचारः। 'सामाइए' सामायिकविषये, सामायिकग्रहणात् सम्यक्त्वसामायिकदेशविरतिसामायिकयोस्रहणं । तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, देशविरतिसामायिकातिचारं तु भेदेनाह-'तिण्हं गुत्तीणं तिसृणां गुप्तीनां, यत्खण्डितमित्यादिना सर्वत्र योगः । मनोवाकायगोपनात्मिकास्तिस्रो गुप्तयस्तासां चश्रद्धानविपरीत [प्ररूपणाभ्यां खण्डना विराधना च । 'चतुर्णा' क्रोधमानमायालोभलक्षणानां 'कषायाणां, प्रतिषिद्धानां करणेनाश्रद्धानविपरीत] प्ररूपणाभ्यां च 'पञ्चानामणुव्रतानां' 'त्रयाणां गुणवतानां' 'चतुर्णी शिक्षाव्रतानां उक्तखरूपाणां, अनुव्रतादिमीलनेन 'द्वादशविधस्य श्रावकधर्मस्य यत्खण्डितमित्यादिना सर्वत्र योगः देशतो भग्नं, यद्विराधितं सुतरां भग्नं, न पुनरेकान्ततोऽभावमापादितं 'तस्स मिच्छामि दुक्कडं' तस्य-दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य तथा गुप्तीनां कषायाणां द्वादशविधश्रावकधर्मस्य यत्खण्डनं विराधनं चातिचाररूपं तस्य, मिथ्येति प्रतिक्रामामि, दुष्कृतमेतदकर्त्तव्यमिदं ममेत्यर्थः । अत्रान्तरे विनेयः पुन' ॥१८ ॥ Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy