________________
Jain Education
वाच्याः । साम्प्रतमेताखेव किञ्चिद्विशेषेणाऽऽह - 'जंकिंचि मिच्छाएत्ति' यत्किञ्चन कदालम्बनमाश्रित्य मि थ्यया-मिथ्यायुक्तेन कृतयेत्यर्थः, मिथ्याभावोऽत्रास्तीति अभ्रादित्वादकारे मिथ्या, एवं क्रोधयेत्यादावपि, मनसा दुष्कृता मनोदुष्कृता तया, प्रद्वेषनिमित्तयेत्यर्थः, वाग्दुष्कृतया असभ्य परुषादिवचननिमित्तया, कायदुष्कृतया आसन्नगमनस्थानादिनिमित्तया, क्रोधया-क्रोधयुक्तया, मानया मानयुक्तया, मायया- मायायुक्तया, लोभया-लोभयुक्तया, अयं भावः - क्रोधाद्यनुगतेन या काचिद्विनयभ्रंशादिलक्षणा आशातना कृता तयेति । एवं दैवसिक्याशातनोक्ता, अधुना पक्षचातुर्माससंवत्सरकालकृता इहभवान्यभवकृताऽतीतानागतकालकृता वा या आशातना तस्याः संग्रहार्थमाह - 'सव्वकालियाए' सर्वकालेषु भवा सर्वकालिकी | तया, अनागतकाले कथमाशातनासंभव इति चेदुच्यते - श्वोऽस्य गुरोरिदमिदं वाऽनिष्टं कर्त्ताऽस्मीति चिन्तया, इत्थं भवान्तरेऽपि तद्वधादिनिदानकरणेन सम्भवत्येव, सर्व एव मिथ्योपचारा-मातृस्थानगर्भाः क्रियाविशेषा यस्यां सा सर्वमिथ्योपचारा तया, सर्वे धर्मा:-अष्टौ प्रवचनमातरः सामान्येन करणीयव्यापारा वा तेषामतिक्रमणं लङ्घनं विराधनं यस्यां सा सर्वधर्मातिक्रमणा, एवंभूतया आशातनया यो मयाऽतिचारः- अपराधः कृतो विहितस्तस्य अतिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिकं प्रतिक्रमामि-अपुनः करणेन निवर्त्ते, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं, भवोद्विग्नेन प्रशान्तेन चेतसा, तथा गर्हे आत्मानं दुष्टकर्मकारिणं युष्मत्साक्षिकं, व्युत्सृजाम्यात्मानं दृष्टकर्मकारिणं तदनुमतित्यागेन । एवं तत्रस्थ एवार्द्धाविनतकायः पुनरेवं भणति
For Private & Personal Use Only
jainelibrary.org