SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह दमे इत्यर्थः । इदानीमपराधक्षामणां कुर्वन् रजोहरणोपरिन्यस्तहस्तमस्तको विनेय इदमाह-'खामेमि खमा समणो । देवसिअं वइक्कम क्षमयामि क्षमाश्रमण ! दिवसे भवो देवसिकस्तं व्यतिक्रममवश्यकरणीययोगवि॥१७६॥ राधनारूपमपराधमित्यपराधक्षमणारूपं षष्ठं स्थानं । अत्रान्तरे च गुरुर्वदति 'अहमवि खामेमि अहमपि क्षमयामि देवसिकंव्यतिक्रम-प्रमादोद्भवमविधिशिक्षणादिकं । ततो विनेयः प्रणमन् क्षमयित्वा 'आवस्सियाए इत्यादि जो मे अइयारो कओ' इत्यन्तं खकीयातिचारनिवेदनपरमालोचनार्हप्रायश्चित्तसूचकं सूत्रं 'तस्स खमासमणो! पडिकमामि' इत्यादिकं च प्रतिक्रमणाहप्रायश्चित्ताभिधायकं च पुनरकरणेनाभ्युत्थित आत्मानं शोधयिष्यामीतिबुद्ध्या अवग्रहान्निःसृत्य पठति । अवश्यकर्त्तव्येषु चरणकरणेषु भवा क्रिया (आवश्यिकी) तया हेतुभूतया आसेवनाद्वारेण यदसाध्वनुष्ठितं तस्मात्प्रतिक्रमामि निवर्ते, इत्थं सामान्येनाभिधाय विशेषेणाभिधत्ते-क्षमाश्रमणानां सम्बन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातना खण्डना आशातना तया । किंविशिष्टया?–'त्रयस्त्रिंशदन्यतरया' त्रयस्त्रिंशत्सङ्ख्यानामाशातनानामन्यतरया कयाचिदु, उपलक्षण- त्वाद्वाभ्यां तिसृभिरपि । यतो दिवसमध्ये सर्वा अपि संभवन्ति । ताश्चेमा:-गुरोः पुरतो गमनं शिष्यस्य नि कारणं विनयभङ्गहेतुत्वादाशातना, मार्गदर्शनादिकारणे तु न दोषः १, गुरोः पार्धाभ्यामपि गमनं २, पृष्ठ|तोऽप्यासन्नगमनं, निःश्वासक्षुतश्लेष्मपातादिदोषप्रसङ्गात्, ततश्च यावता भूभागेन गच्छता आशातना न भवति तावता गन्तव्यं ३, एवं पुरतः पार्श्वतः पृष्ठतश्च स्थानं ६, तथा पुरतः पार्श्वतः पृष्ठतो वा निषीद ॥१७६ ॥ Jain Educational For Private & Personel Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy