________________
Jain Education Int
'भे' भवतां 'दिवसो वइक्कतो ?' दिवसो व्यतिक्रान्तः ? अत्र दिवसग्रहणं रात्रिपक्षादीनामुपलक्षणं द्रष्ट| व्यमिति । एवं योजितकरसम्पुटं गुरोः प्रतिवचनमीक्षमाणं शिष्यं प्रत्याह गुरुः 'तहत्ति' तथेति, प्रतिश्रवणेsa तथाकारः, यथा भवान् ब्रवीति तथेत्यर्थः । एवं तावदाचार्यशरीरवार्त्ता पृष्टा, अथ तपोनियमविषयां वार्ता पृच्छन्नाह - ' जत्ता में' 'ज' इत्यनुदात्तखरेणोचारयन् रजोहरणं कराभ्यां स्पृष्ट्वा रजोहरणललाट्योरन्तराले 'ता' इति खरितेन खरेणोच्चार्य उदात्तखरेण 'में' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिर्ललाटं स्पृशति । यात्रा- संयमतपोनियमादिलक्षणा क्षायिकक्षायोपशमिकोपशमिकभावलक्षणा भवतां उत्सर्पतीति गम्यते । इति यात्रापृच्छारूपं तुर्यस्थानं । अत्रान्तरे गुरोः प्रतिवचनं 'तुभंपि वहए' मम तावदुत्सर्पति भवतोऽप्युत्सर्पति ? । अधुना नियन्त्रणीयपदार्थविषयां वार्त्ता पृच्छन् पुनरप्याह विनेयः - 'जवणिज्जं च भे' 'ज' इत्यनुदात्तखरेण रजोहरणं स्पृष्ट्वा 'व' इति खरितस्वरेण रजोहरणललाटयोरन्तराले उच्चार्य 'णि' शब्दमुदात्तखरेणोच्चारयन् कराभ्यां ललाटं स्पृशति, न पुनः प्रतिवचनं प्रतीक्षते, अर्द्धसमाप्तत्वात् प्रश्नस्य । ततो 'जं' इत्यनुदात्तखरेणोच्चार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरणललाटान्तराले 'च' इति खरितखरेणोचार्य 'भे' इत्युदात्तखरेणोच्चारयन् कराभ्यां ललाटं स्पृष्ट्वा प्रतिवचनं शुश्रूषमाणस्तथैवाऽऽस्ते "जवणिज्जं च' यापनीयं- इन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं च 'में' भवतां शरीरमिति गम्यं । एवं भक्त्या पृच्छता विनेयेन विनयः कृतो भवतीति यापनाप्रच्छनं पञ्चमं स्थानं । अत्रान्तरे गुरुराह - ' एवं ' आम, यापनीयं च
For Private & Personal Use Only
ainelibrary.org