________________
20-562
धर्म- "आयप्पमाणमित्तो, चउद्दिसि होइ उग्गहो गुरुणो। अणणुण्णायस्स सया, न कप्पए तत्थ पविसे ॥१॥"इति
दिअनुज्ञापनं द्वितीयं स्थानं । ततो गुरुर्भणति 'अनुजानामि । ततः शिष्यो भुवं प्रमृज्य नैषेधिकी कुर्वन् गुर्वव॥ १७५॥
ग्रहं प्रविशति 'निसीहीति' निषिद्धसर्वाशुभव्यापारः सन् प्रविशाम्यहमित्यर्थः । ततः सन्दंशप्रमार्जनपूर्वकमुपविशति, गुरुपादान्तिके च भूमौ निधाय रजोहरणं तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवस्त्रिकया वामकर्णादारभ्य वामहस्तेन दक्षिणकर्ण यावत् ललाटमविच्छिन्नं च बामजानु त्रिःप्रमृज्य मुखवस्त्रिका वामजानूपरि स्थापयति । ततोऽकारोच्चारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोचारणसमकालं ललाटं स्पृशति, ततः काकारोचारणसमकालं रजोहरणं स्पृष्ट्वा यंकारोचारणसमकालं ललाटं स्पृशति, पुनश्च काकारोचारणसमकालं रजोहरणं स्पृष्ट्वा यकारोचारणसमकालं ललाटं स्पृशति, ततः 'संफासं' इति वदन | शिरसा पाणिभ्यां च रजोहरणं स्पृशति । ततः शिरसि बद्धाञ्जलिः 'खमणिज्जो मे किलामो' इत्यारभ्य है 'दिवसो वइकंतों इति यावत् गुरुमुखे निविष्टदृष्टिः पठति । अधस्तात्कायोऽधःकाया-पादलक्षणस्तं प्रति, कायेन-निजदेहेन हस्तललाटलक्षणेन, संस्पर्श-आमर्शस्तं करोमीति गम्यते । एतदपि ममानुजानीध्वमित्यनेन योगः । आचार्यमननुज्ञाप्य हि संस्पर्शी न कार्यः । ततो वक्ति 'खमणिज्जो'क्षमणीयः सोढव्यः, 'भे'
x भवद्भिः 'किलामो' क्लमः संस्पर्शे सति देहग्लानिरूपः । तथा 'अप्पकिलंताणं' अल्पं-स्तोकं क्लान्तं-क्लमो येषां ते अल्पक्लान्तास्तेषामल्पवेदनानामित्यर्थः 'बहुसुभेण' बहु च तच्छुभं च बहुशुभं तेन, बहुमुखेनेत्यर्थः ।।
SCIESCALAMAUSAMRESEASCAMARY
पृष्ट्वा यकारा शिरसि बना अधस्ताक
॥१७५॥
Jan Educh an internation
For Private & Personal Use Only
www.jainelibrary.org