________________
वा नन्द्यादित्वात्कर्तर्यने श्रमणः,क्षमाप्रधानःश्रमण क्षमाश्रमणस्तस्य सम्बोधने प्राकृते 'खमासमणो 'डोदी? वे' (८-३-३८) ति आमच्ये से?कारः । क्षमाग्रहणेन मार्दवार्जवादयो गुणाः सूचिताः। ततश्च क्षमादिगुणोपलक्षितो यतिः प्रधानः। अनेन वन्दनाहत्वं तस्यैव सूचितं । किं कर्तुं ? वन्दितुं-नमस्कर्तु, भवन्तमिति गम्यते । कया? यापनीयया नैषेधिक्या, अत्र नैषेधिक्येतिविशेष्यं, यापनीययेति विशेषणं, 'पिधु गत्या मित्यस्य निपूवस्य पनि निषेधः प्राणातिपातादिनिवृत्तिः स प्रयोजनमस्या नैषेधिकी-तनुः तया प्राणातिपातादिनिवृत्तया तन्वा इत्यर्थः । कीदृश्या? यापनीयया, 'यांक प्रापणे अस्य णिगन्तस्य प्वागमे यापयतीति यापनीया, प्रवच
नीयादित्वात्कतर्यनीयः, तया, शक्तिसमन्वितयेत्यर्थः । अयं समुदायार्थ:-हे श्रमणगुणयुक्त! अहं शक्तिदासमन्वितशरीरः प्रतिषिद्धपापक्रियश्च त्वां वन्दितुमिच्छामि । अत्र विश्रामः । इदं चेच्छानिवेदनं प्रथमं स्था
नम् । अत्र चान्तरे गुरुयदि व्याक्षेपबाधादियुक्तस्तदा भणति-'प्रतीक्षखेति' तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा कथयति, अन्यथा तु नेति चूर्णिकारमतं । वृत्तिकारस्य तु मतं त्रिविधेनेति भणतिमनसा वचसा कायेन प्रतिषिद्धोऽसीत्यर्थः । ततः शिष्यः संक्षेपतः वन्दनं करोति । व्यापादिरहितश्चेद्गुरु, स्तदा वन्दनमनुज्ञातुकामश्छन्देनेति वदति, छन्देन-अभिप्रायेण, ममाप्येतदभिप्रेतमित्यर्थः । ततो विनेयोऽव
ग्रहाद्वहिःस्थित एवेदमाह-'अनुजानीत-अनुमन्यध्वं, 'मे' इत्यात्मनिर्देशे, किं? मितश्चासाववग्रहश्च मिताव-13 ध. सं.३०
विग्रहः, इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्रमवग्रहस्तस्मिन्नाचार्यानुज्ञां विना प्रवेष्टुं न कल्पते, यदाह
Jain Education
For Private & Personel Use Only
Odjainelibrary.org