________________
धर्म
॥ १७४ ॥
Jain Education Inte
वंदंति जइ, गयमोहा अहव वंदावे । २ । ५ । तथा आलोचनायां च ६ । संवरणे भुक्तानन्तरं प्रत्याख्यानकरणे दिवसचरिमरूप इत्यर्थः । अथवा भक्तार्थिनः केनचित्कारणेन पुनरभक्तार्थप्रत्याख्याने ७ । उत्तमार्थे चाराधनाकाले ८ इति । दोषाः ६ – 'माणो अविणयखिंसा, नीयागोयं अवोहिभवबुट्टी । अनमंते छद्दोसा, एवं अडनउयसयमिहयं ॥ १ ॥ अथ सूत्रम् - " इच्छामि खमासमणो वंदिउं जावणिज्जाए निसीहिआए अणुजाणह मे मिउग्गहं, णिसीही । अहोकायं कायसंफासं खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वहतो ? जत्ता भे ? जवणिज्जं च भे १ खामेमि खमासमणो देवसिअं वइक्कमं, आवस्सियाए | पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसन्नयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुकडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माहक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" ॥ अत्र हि शिष्यो गुरुवन्दनेन वन्दितुकामः पूर्व लघुवन्दनपुरस्सरं संदंशको प्रमृज्योपविष्ट एव मुखवस्त्रिकां पञ्चविंशतिकृत्वः प्रत्युपेक्षते, तया च शरीरं पञ्चविंशतिकृत्व एव प्रमृज्य परेण विनयेन मनोवाक्कायसंशुद्धो गुरोः सकाशादात्मप्रमाणात्क्षेत्राद्वहिः स्थितोऽधिज्यचापवद्वनतकायः करद्वयगृहीतरजोहरणादिर्वन्दनायोद्यत एवमाह - 'इच्छामि' अभिलषामि, अनेन बलाभियोगः परिहृतः, 'क्षमाश्रमण' 'क्षमूषू सहने' इत्यस्यार्थत्वा (स्यार्षत्त्वा) दङि क्षमा सहनमित्यर्थः, श्राम्यति संसारविषये खिन्नो भवति तपस्यतीति
For Private & Personal Use Only
संग्रह.
॥ १७४ ॥
jainelibrary.org