________________
GALLARSARAIGALACESS
वराह ४ पाहुणए ५। आलोयण ६ संवरणे ७, उत्तमढे य ८ वंदणयं ।१।' सर्वमप्यनुष्ठानं प्रथमं साधूनदिश्य सूत्रेऽभिहितं, श्राद्धस्य तु यथायोग्यमायोजनीयमिति साधूनां वन्दनदानेऽष्टौ कारणानि । तत्र प्रतिक्रमणे चत्वारि वन्दनकानि द्विकद्विकरूपाणि स्युः, तानि च सामान्यत एकमेव १। स्वाध्याये वाचनादिविषये त्रीणि 'सज्झाए वंदित्ता पट्टवेइ पढम १। पट्टविए पवेइअंतस्स वितिअं २। पच्छा उद्दिडं समुद्दिट्ट पढइ, उद्देससमुद्देसवंदणाणमिहेवंतब्भावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जह न पढिउकामो तो वंदइ, अह पढिउकामो तो अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिर पडिक्कमइ, एवं तइअं३' । एतान्यपि त्रीणि सामान्यतश्चैकमेव २। एवं पूर्वाहे सप्त । अपराहेऽपि सप्तैव भवन्ति, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावात् । एतानि ध्रुवाणि कृतिकर्माणि चतुर्दश भवन्ति, अभक्तार्थिकस्य । इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्ति । यत उक्तम्-"चत्तारि पडिकमणे, किइकम्मा हुति तिन्नि सज्झाए । पुवण्हे अवरण्हे, किइकम्मा चोदस हवंति ॥१॥” इति कृतं प्रसङ्गेन २ तथा कायोत्सर्गे-विकृत्यनुज्ञारूपे, यो हि विकृतिपरिभोगाय आचाम्लविसर्जनार्थ क्रियते ३ । अपराधे गुरुविनयबन्धन(योल्लङ्घन)रूपे यतस्तं वन्दित्वा क्षमयति, पाक्षिकवन्दनान्यपराधे पतन्ति ४ । प्राघूर्णके-ज्येष्ठे समागते सति वन्दनकं भवति । अत्र चायं विधिः-'संभोइ अण्णसंभोइआ य दुविहा हवंति पाहुणया। संभोइए आयरिअं, आपुच्छित्ता उ वंदति।१। इअरे पुण आयरियं, वंदित्ता संदिसाविअं तय । पच्छा
Jain Education in
For Private & Personel Use Only
Mainelibrary.org