SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥१७३॥ ४ दिव्यपदेशं वा कृत्वा न सम्यग्वन्दनं २० । हीलितं हे गणिन्वाचक! किं भवतां वन्दितेनेत्यादिना अवजा नतो वन्दनं २१ । विपरिकुञ्चितं अर्द्धवन्दित एव देशादिकथाकरणं २२। दृष्टादृष्टं-तमसि स्थितः केनचिदन्तरित एवमेवास्ते, दृष्टस्तु वन्दते २३ । शृङ्गं अहोकायं काय इत्याद्यावर्तानुचारयतो ललाटमध्यदेशमस्पृशतः, शिरसो वामदक्षिणे शृङ्गे स्पृशतो वन्दनं २४ । कर-इव राजदेयभाग इवाहत्प्रणीतो वन्दनकरोऽवश्यं दातव्य इतिधिया वन्दनं २५ । मोचनं लौकिककराद्वयं मुक्ता, न मुच्यामहे वन्दनकरादिति वुद्ध्या वन्दनं २६ । आश्लिष्टानाश्लिष्टम्-अत्र चतुर्भङ्गी, सा च अहोकायं कायइत्यावर्त्तकाले भवति, रजोहरणस्य शिरसश्च कराभ्यामाश्लेषणं १, रजोहरणस्य न शिरसः २, शिरसो न रजोहरणस्य ३, न रजोहरणस्य नापि शिरसः ४, अत्र प्रथमः शुद्धः, शेषास्त्वशुद्धाः २७ । न्यून-व्यञ्जनाभिलापावश्यकैरसम्पूर्ण २८ । उत्तरचूडं-वन्दनं दत्त्वा महता शब्देन मस्तकेन वन्दे इत्यभिधानं २९ । मूकम्-आलापाननुच्चारयतो वन्दनं ३० । ढहुरं-महता शब्देनोचारयतो वन्दनं ३१ । चूडली-उल्मूकं यथोल्मूकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनं, यदा दीर्घहस्तं प्रसार्य वन्दे इति भणतो वन्दनं, अथवा हस्तं भ्रमित्वा सर्वान् वन्दे इति वदतो वन्दनं ३२ । 'किइकम्मपि कुणतो, न होइ किइकम्मनिज्जराभागी। बत्तीसामन्नयरं, साहू ठाणं विराहतो ॥१॥ बत्तीसदोसपरिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावई निब्वाणं, अचिरेण विमाणवासं वा ॥२॥' कारणानि ८-'पडिक्कमणे १ सज्झाए २ काउस्सग्गा ३ GAAAAAAAAA-GAM ॥१७३॥ Jan Education International For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy