SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ हितो यदा भवति तदा मनसो दूषितत्वात् मनसा प्रदुष्टं, यद्वा वन्द्यो हीनः केनचिद्गुणेन, ततोऽहमेवंविधेनापि वन्दनं दापयितुमारब्ध इति चिन्तयतो वन्दनं ९। वेदिकाबद्धं जान्वोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं जानु करद्वयान्तः कृत्वा वा इति पञ्चभिर्वेदिकाभिर्बद्धं युक्तं वन्दनं १० बिभ्यत्सङ्घात्कुलाद्गच्छात्क्षेत्राद्वा निष्कासयिष्येऽहमिति भयावन्दनं ११ । भजमानं भजते मां सेवायां पतितः अग्रे वा मम भजनं करिष्यति, अतोऽहमपि वन्दनसत्कं निहोरकं निवेशयामीतिवुद्ध्या वन्दनं १२। मैत्रीतो मम मित्रमाचार्य इति, आचार्येणेदानी मैत्री वा भवत्विति वन्दनं १३ । गौरवान्दिनकं सामाचारीकुशलोऽहमिति गर्वादन्येऽप्यवगच्छन्तु मामिति यथावदावर्त्तादीनाराधयतो वन्दनं १४ । कारणात् ज्ञानादिव्यतिरिक्ताद्वस्त्रादिलाभहेतोर्वन्दनं, यहा ज्ञानादिनिमित्तमपि लोकपूज्योऽन्येभ्यो वाऽधिकतरो भवामीति अभिप्रायतो वन्दनं, यद्वा वन्दनकमूल्यवशीकृतो मम प्रार्थनाभन करिष्यतीति बुद्ध्या वन्दनं १५ । स्तैनिकं वन्दमानस्य मे लाघवं भविष्यतीति परेभ्य आत्मानं गृहयतो वन्दनं, अयमर्थः-एवं नाम शीघ्रं वन्दते यथा स्तेनवत् केन (चित् दृष्टः केनचिन्नेति १६ । प्रत्यनीकं आहारादिकाले वन्दनं, यदाह-वक्खित्त इत्यादि १७ । रुष्टं क्रोधाध्मातस्य गुरोर्वन्दनं, आत्मना वा क्रुद्धेन वन्दनं १८। तर्जितं अवन्द्यमानो न कुप्यसि, वन्द्यमानश्चाविशेषज्ञतया न मे प्रसीदसीति निर्भर्त्सयतो, यद्वा बहुजनमध्ये मां वन्दनं दापयंस्तिष्ठसि ज्ञास्यते मया तवैकाकिन इति धिया, तर्जन्या शिरसा वा तर्जयतो वा वन्दनं १९ । शठं शाव्येन विश्रम्भार्थ बन्दनं, ग्लाना Jain Education in For Private Personal use only lainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy