________________
धर्म॥ १७२ ॥
Jain Education
बद्धं । भयसा चैव भयंतं, मित्ती गारवकारणा ॥ २ ॥ तेणियं पडिणीयं चेव, रुटुं तज्जियमेव य । सढं च हीलियं चैव, तहा विपलिउंचियं ॥ ३ ॥ मिदिट्ठे च तहा, सिंगं च करमोअणं । आलिद्धमणालिङ, ऊणं उत्तरचूलिअं ॥ ४ ॥ मूअं च ढहरं चेव, चुडलियं च अपच्छिमं । बत्तीसदोसपरिमुद्धं, किइकम्मं पजए ॥ ५ ॥ आसां व्याख्या - अनादृतं सम्भ्रमरहितं वन्दनं, निरादरवन्दूनमित्यर्थः । [ तद्दोषदुष्टमिति सर्वत्र - योज्यं] १ स्तब्धं मदाष्टकवशीकृतस्य वन्दनं, देहमनसोः स्तब्धत्वाच्चतुर्द्धा २ । प्रविद्धं वन्दनं ददत एव पलायनं ३। परिपिण्डनं प्रभूतानां युगपद्वन्दनं, यहा कुक्ष्योरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याव्यक्तसूत्रोच्चारणपुरस्सरं वन्दनं ४ । टोलगन्ति तिड्डुवदुत्सुत्योत्छुत्य विसंस्थुलं वन्दनं ५ अङ्कुशं उपकरणचोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्याङ्कुशेन गजस्येवाचार्यस्योर्द्धस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनार्थमासने उपवेशनं, नहि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य, यद्वा रजोहरणमङ्कशवत् करद्वयेन गृहीत्वा वन्दनं, यदि वा अङ्कुशाक्रान्तहस्तिन इव शिरोनमनोन्नमने कुर्वाणस्य वन्दनं ६ । कच्छपरिङ्गितं ऊर्द्धस्थितस्य तेत्तीसण्णयराए इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा अहोकायं काय इत्यादि सूत्रमुच्चारयतोऽग्रतोऽभिमुखं पञ्चादभिमुखं च रिङ्गतञ्चलतो वन्दनं ७ | मत्स्योद्वृत्तं उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोद्वर्त्तते उद्वेल्लते यत्र तत्, यद्वा एकं वन्दित्वा द्वितीयस्य साधोद्द्रुतं द्वितीयपार्श्वेन रेचकावर्त्तेन मत्स्यवत्परावर्त्तमानस्य वन्दनं ८ । मनसा प्रदुष्टं शिष्यस्तत्संम्बन्धी वा गुरुणा किञ्चित्परुषमभि
For Private & Personal Use Only
संग्रह.
॥ १७२ ॥
w.jainelibrary.org