________________
धर्म
॥ १७० ॥
Jain Education In
समणो वंदिडं जावणिजाए निसीहिआए इत्यभिधाय गुरोश्छन्दोऽनुज्ञापनाय प्रथममवनमनं, यदा पुनः कृतावर्त्ती निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय पुनश्छन्दोऽनुज्ञापनायैव तदा द्वितीयं २ । तथा यथाजातंजातं जन्म, तच द्वेधा-प्रसवः प्रव्रज्याग्रहणं च तत्र प्रसवकाले रचितकरसंपुटो जायते, प्रव्रज्याकाले च गृहीतरजोहरणमुखवस्त्रिक इति, अत एव रजोहरणादीनां पञ्चानां शास्त्रे यथाजातत्वमुक्तं, तथा च तत्पाठः'पंच अहाजायाइं, चोलपट्टो १ तहेव रयहरणं २ । उण्णिअ ३ खोमिअ ४ निस्सिज्जजुअलं तहय मुहपत्ती १। यथाजातं अस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातं ३ । तथा द्वादशावर्त्ताःकायचेष्टाविशेषा गुरुचरणन्यस्तहस्तशिरः स्थापनारूपा यस्मिन् तद्वादशावर्त्त, इह च प्रथमप्रविष्टस्य अहो - कायमित्यादिसूत्रोच्चारणगर्भाः पडावत, निष्क्रम्य पुनः प्रविष्टस्यापि त एव षडिति द्वादश १५ । चत्वारि शिरांसि यस्मिन् तचतुः शिरः, प्रथमप्रवेशे क्षमणाकाले शिष्याचार्ययोरवनमच्छिरोद्वयं निष्क्रम्य पुनः प्रवेशे तथैव शिरोद्रयं १९ । त्रिगुप्तं मनोवाक्कायकर्मभिर्गुतं २२ । तथा प्रथमोऽनुज्ञाप्य प्रवेशो, द्वितीयः पुनर्निर्गत्य प्रवेश इति द्वौ प्रवेशौ यत्र तद् द्विप्रवेशं २४ । एकं निष्क्रमणमावश्यक्या निर्गच्छतो यत्र तदेक| निष्क्रमणं २५ । तथा षट् स्थानानि शिष्यस्य 'इच्छा य १ अणुन्नवणा २, अव्वाबाहं च ३ जन्त ४ जवणा य ५ । अवराहखामणावि अ ६, वंदणदायस्स छट्टाणा । १ । । गुरुवचांस्यपि षडेव 'छंदेण १ णुजाणामि २, तहत्ति ३ तुपि वहए ४ एवं ५ । अहमवि खामेमि तुमं ६, आलावा वंदणरिहस्स । १ । एते द्वयेऽपि
For Private & Personal Use Only
संग्रह.
॥ १७० ॥
jainelibrary.org