________________
ध. सं. २९
Jain Education Inte
केइ पुणो, सुरसुक्खं अणुभवेऊणं ॥ ४ ॥” इति । एवं धर्मशालागुरुज्ञानादेरपि यथोचितचिन्तायां खशक्त्या यतनीयं, नहि देवगुर्वादीनां श्रावकं विनाऽन्यः कश्चिचिन्ताकर्त्ताऽस्तीति । इदानीं जिनपूजादिकार्यानन्तरकरणीयमाह - 'प्रत्याख्याने 'त्यादि, 'गुरोः धर्माचार्यस्य देववन्दनार्थमागतस्य, स्नात्रादिदर्शनधर्मदेशनाद्यर्थं तत्रैव स्थितस्य, वसतौ वा चैत्यवन्नैषेधिकीत्रयाधिगमपञ्चकादियथार्हविधिना गत्वा, धर्मदेशनायाः प्राक् पञ्चादा, तस्याभ्यर्णे - उचिते समीपे, उचितत्वं चार्द्धचतुर्थहस्तप्रमाणात् क्षेत्राइहिरवस्थानं, विनयो - व्याख्यास्यमानवन्दनकादिरूपस्तत्पूर्वकं तमादौ कृत्वेत्यर्थः । प्रत्याख्यानस्य देवसमीपे कृतस्य, ततो विशिष्टस्य वा, क्रियाकरणं गुरुमुखेन प्रतिपत्तिरित्यर्थः । अयं च विशेषतो गृहिधर्म इत्यन्वयः । त्रिविधं हि प्रत्याख्यानकरणंआत्मसाक्षिकं १ देवसाक्षिकं २ गुरुसाक्षिकं ३ चेति गुरोः पार्श्वे प्रत्याख्यानं कार्यम्, उक्तंच - "प्रत्याख्यानं यदासीत्तत्करोति गुरुसाक्षिकम् । विशेषेणाथ गृह्णाति, धर्मोऽसौ गुरुसाक्षिकम् ॥ १ ॥” गुरुसाक्षिकत्वे हि दृढता भवति प्रत्याख्यानपरिणामस्य । 'गुरुसक्खिओ हु धम्मो' इति जिनाज्ञाराधनं, गुरुवाक्योद्भूतशुभाशयादधिकः क्षयोपशमस्तस्माच्चाधिका प्रतिपत्तिरित्यादिर्गुणः, तत्प्रोक्तं श्रावकप्रज्ञप्तौ "संतंमिवि परिणामे, गुरुमूलपवज्जणंमि एस गुणो । दृढया आणाकरणं, कम्मखओवसमबुडी अ ॥ १ ॥” एवं चान्येऽपि नियमाः सति सम्भवे गुरुसाक्षिकं स्वीकार्याः । प्रत्याख्यानकरणं च गुरोर्विनयपूर्वकमित्युक्तं, सच वन्दनादिरूपस्तत्र वन्दनं स्फेटा छोभद्वादशावर्त्तभेदात्रिधा (वन्दनं त्रेधा) यद्भाष्यम् – 'गुरुवंदणमह तिविहं, तं फिट्टा १ छोभ २ बारसा
For Private & Personal Use Only
ainelibrary.org