SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १६८ ॥ Jain Education इत्येवं सर्वत्र धर्मकार्ये आशातनावारणाय विवेक: कार्यों विवेकिभिरित्यलं प्रसङ्गेन । तथा वशक्त्या निजशक्त्यनुसारेण नतु स्वशक्त्यतिक्रमेण, तथा सति लोकोपहासात्र्त्तध्यानादिप्रवृत्तेः । उचितानि चैत्यसम्बन्धियोग्यकार्याणि एतचैत्यप्रदेश संमार्जन चैत्यभूमिप्रमार्जन पूजोपकरणसमारचनप्रतिमापरिकरादिनैर्मल्यापादनविशिष्टपूजाप्रदीपादिशो भाविर्भावनाक्षतनैवेद्यादिवस्तुस्तोमसत्यापन चन्दन केसरधूपघृतादिसंचयनदेवद्रव्यो ब्राहणिकाकरणोद्यमनतत्सुस्थानस्थापनतदायव्ययादि सुव्यक्तलेख्य कविवेचन कर्मकरस्थापनप्रभृतीनि तेषां चिन्तनं चिन्ताकरणं विशेषतो गृहिधर्म इति योगः । ( करणं अन्वयस्तूक्त एव ) अयं भावःआठ्यस्य द्रव्यपरिजनादिबलसाध्या चिन्ता सुकरा, अनाढ्यस्य तु स्ववपुः कुटुम्बादिसाध्या दुष्करा, ततो यस्य यत्र यथा सामर्थ्य, स तत्र तथा विशेषतः प्रवर्त्तते, तत्रापि या चिन्ता खल्पसमयसाध्या तां द्वितीयनैषेधिक्या अर्वाग्विधत्ते, शेषां तु पश्चादपि यथायोग्यं । एतदेव च गार्हस्थ्यसारं, तथाचाह-तं नाणं तं च विन्नाणं, तं कलासु अ कोसलं । सा बुद्धी पोरिसं तं च, देवकज्जेण जं वए ॥ १ ॥” इति । जीर्णोद्धारकरणे च महाफलं, यदाह- अप्पा उद्धरिओ चिअ, उद्धरिओ तहय तेहि निअवसो । अने अ भव्वसत्ता, अणुमोअंता उ जिणभवणं ॥ १ ॥ खविअं नीआगोअं, उच्चागोअं च बंधिअं तेहिं । कुगहपहो निट्टविओ, सुगईपहो अजिओ तहय ॥ २ ॥ इहलोगंमि सुकिन्ती, सुपुरिसमग्गो अ देसिओ होई । अन्नेसिं भव्वाणं, जिणभवणंउद्धरणं ॥ ३ ॥ सिज्झति केइ तेणेव भवेण सिद्धत्तणं च पाविति । इंदसमा For Private & Personal Use Only संग्रह. ।। १६८ ।। v.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy