________________
स्त्रिकादेरपि व्यापारणं न युक्तं, गुरुद्रव्यत्वात्, [उक्तं च श्राद्धजीतकल्पे-"मुहपत्तिआसणाइसु, भिण्णं जलपणमाइसु गुरुलहगाई । जइबभोगि अ पुण, वत्थाइसु देवव्वव्व ॥१॥” (भावार्थी यथा) गुरुयतिसत्केषु मुखवस्त्रिकासनाशनादिषु परिभुक्तेषु भिन्नं, तथा जलेऽन्ने आदिशब्दावस्त्रादौ च, विक्रमार्कादिनेव केनापि साधुनिश्राकृते लिङ्गिसत्के कनकादौ वा भुक्ते सति गुरुलघुकादयः क्रमेण स्युः । जले ६ लघवः अन्ने ४ गुरवः वस्त्रादौ ६ लघवः ४ कनकादौ ६ गुरव एते । एवं च गुरुद्रव्यं भोगाईपूजाइभेदाभ्यां द्विविधं, तत्राचं वस्त्रपात्राशनादि, द्वितीयं च तनिश्राकृतं सौवर्णमुद्रादीति पर्यवसन्नं] साधारणं तु सन्दत्तं कल्पते, अत एव | च मुख्यवृत्त्या धर्मव्ययः साधारण एव क्रियते, तस्याशेषधर्मकार्य उपभोगागमनात् । धर्मस्थाने प्रतिज्ञातं च द्रव्यं पृथगेव व्ययितव्यं, नतु खयं क्रियमाणभोजनदानादि रूपव्यये क्षेप्यं, एवं स्फुटमेव धर्मधनोपयोगदोषात्, एवं सति ये यात्रादौ भोजनशकटसंप्रेषणादिव्ययं सर्व मानितव्ययमध्ये गणयन्ति, तेषां मूढानां न ज्ञायते का गतिः? । उद्यापनादावपि प्रौढाडम्बरेण खनाम्ना मण्डिते जनबहुलाधादि स्थान, निष्क्रयं तु स्तोकं मुञ्चतीति व्यक्त एव दोषः । तथाऽन्यप्रदत्तधर्मस्थानव्ययितव्यधनव्ययसमये तन्नाम स्फुटं ग्राह्य, एवं सामुदायिकस्यापि, अन्यथा पुण्यस्थाने स्तैन्यादिदोषापत्तेः । एवमन्त्यावस्थायां पित्रादीनां यन्मान्यतेतत्सावधानत्वे गुर्वादिसङ्घसमक्षमित्थं वाच्यं-यद्भवन्निमित्तमियदिनमध्ये इयद्ययिष्यामि, तदनुमोदना भवद्भिः कार्येति । तदपि च सद्यः सर्वज्ञातं व्ययितव्यं, न तु खनाना । अमारिद्रव्यं तु देवभोगेऽपि नायाति ।
SEASRECRACCRICS
GOLMAAOOLSGCCCESCOMSACSCREE
m
-
Jain Education in
For Private & Personel Use Only
brjainelibrary.org