________________
नीतं, अतीतभावलग्नोत्पाटितं । अथवा मूलोत्तरभेदाविविधे, तत्र मूलं स्तम्भकुम्भादि, उत्तरं तु(त्व)च्छादनादि, खपक्षपरपक्षकृतविनाशभेदावा द्विविधे, स्वपक्षः साधर्मिकवर्गः, परपक्षो वैधर्मिकलोकः, एवमनेकधा दैविध्यं । अत्रापिशब्दस्याध्याहारादास्तां श्रावकः, सर्वसावद्यविरतः साधुरप्यौदासीन्यं कुर्वाणो देशनादिभिरनिवारयन्ननन्तसंसारिको भणित इति वृत्तिः।" ननु त्रिधा प्रत्याख्यातसावद्यस्य यतेश्चैत्यद्रव्यरक्षायां को नामाधिकारः इति चेदुच्यते, राजादेः सकाशागृहग्रामाद्यादेशादिनाऽभ्यर्थ्य नव्यमुत्पादयतो यतेर्भवति भवदुक्तदूषणावकाशः, परं केनचिद्यथाभद्रकादिना प्राग्वितीर्णमन्यद्वा जिनद्रव्यं विलुप्यमानं रक्षति, तदा नाभ्युपेतार्थहानिः, प्रत्युत धर्मपुष्टिरेव, जिनाज्ञाराधनात्, आगमेऽप्येवमेव, यदाह-"चोएइ चेइआणं, खित्तहिरण्णे अ गामगावाई । लग्गंतस्स उ जइणो, तिगरणसोही कहं न भवे?॥१॥भण्णइ इस्थ विभासा, जो एआइ सयं विमग्गिज्जा । तस्स न होइ विसोही, अह कोइ हरिज एआई॥ २ ॥ तत्थ करंतु उवेहं, |सा जा भणिआ उ तिगरणविसोही । सा य न होइ अभत्ती, तस्स य तम्हा निवारिजा ॥३॥ सव्वत्थामेण तहिं, संघेण य होइ लग्गिअव्वं तु । सचरित्तचरित्तीण य, सव्वेहिं होइ कजं तु ॥ ४ ॥” इति । व्यवहारभाष्येऽपि "चेइअव्वं गिह्नित्तु, मुंजए जो उ देइ साहणं । सो आणाअणवत्थं, पावइ लिंतोवि दिंतोवि | ॥१॥” इति । देवद्रव्यभक्षणरक्षणवर्धनेषु यथाक्रमं फलानि यथा “जिणपक्यणबुड्डिकर, पभावगं नाणदसणगुणाणं । भक्खंतो जिणव्वं, अणंतसंसारिओ होइ॥ १ ॥ (जिणपवयणत्ति सति हि देवद्रव्ये प्रत्यहं
1
"
Jan Education
For Private
Personal Use Only
Q