________________
धर्म
॥ १६६ ॥
Jain Education
रणस्य रजोहरणमुखवस्त्रिकादण्डकादेरपि 'अहवा णाणाइतिग' इति वचनाद्गुरुस्थाने स्थाप्यत्वेन विधिव्यापा रणादधिका तदाज्ञातनापि वर्ज्या । यदुक्तं महानिशीथे-अविहीए निअंसणुत्तरिअं रयहरणं दंडगं वा परिभुंजे चत्थं" इति । तेन श्राद्वैश्वरवलकमुखवस्त्रिकादेर्विधिनैव व्यापारणस्वस्थानस्थापनादि कार्यमन्यथा धर्मावज्ञादिदोषापत्तेः । एतासु चोत्सूत्र भाषणार्हदुर्वाथवज्ञादि महत्याशातनाऽनन्तसंसारिताहेतुश्च यतः - "उस्सुप्तभासगाणं, बोहिणासो अनंतसंसारो । पाणञ्चएव धीरा, उस्मुत्तं ता न भासति ॥ १ ॥ तित्थपर पवयणं सुअं, आयरिअं गणहरं महडीअं । आसायंतो बहुसो, अनंतसंसारिओ होइ ॥ १ ॥” इति । एवं देवज्ञानसाधारणद्रव्याणां गुरुद्रव्यस्य च वस्त्रपात्रादेर्विनाशे तदुपेक्षायां च महत्याशातना । यदूचे "चेइअदव्वविणासे, इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥ १ ॥” विनाशोऽत्र भक्षणोपेक्षणादिलक्षणः । श्रावकदिनकृत्यदर्शनशुद्ध्यादावपि “चेइअदव्वं साहारणं च जो दुहइ मोहिअमईओ । धम्मं च सो न याणइ, अहवा बद्धाउओ नरए ॥१॥” चैत्यद्रव्यं प्रसिद्धं, साधारणं च चैत्यपुस्तकापगतश्राद्धादिसमुद्धरणयोग्यं ऋद्धिमच्छ्रावकमीलितं एते द्वे यो दुह्यति विनाशयति दोग्धि वा व्याजव्यवहारादिना तदुपयोगमुपभुङ्क्त इत्यर्थः । चेइअव्वविणासे, तदव्वविणासणे दुविहभेए । [साहू उविक्खमाणो, अनंतसंसारिओ होइ ॥ १ ॥] चैत्यद्रव्यं हिरण्यादि तस्य विनाशे, तथा तस्य चैत्यस्य द्रव्यं दारूपलेष्टकादि तस्य विनाशने विध्वंसने, कथंभूते ? द्विविधे योग्यातीतभावविनाशभेदात्, तत्र योग्यं नव्यमा
For Private & Personal Use Only
संग्रह.
॥ १६६ ॥
ww.jainelibrary.org