________________
धर्म
॥ १६३ ॥
Jain Education In
प्रभावतस्तव सामर्थ्येन, भगवन्निति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थ, किं तदित्याह - 'भवनिर्वेदः' संसार निर्वेदः, न हि भवादनिर्विण्णो मोक्षाय यतते, अनिर्विण्णस्य तत्प्रतिबन्धात् मोक्षे यत्नोsयत्न एव, निर्जीव क्रियातुल्यत्वात्, तथा 'मार्गानुसारिता' असमूहविजयेन तत्त्वानुसारिता, तथा 'इष्टफलसिद्धि:' अ भिमतार्थनिष्पत्तिरैहलोकिकी, ययोपगृहीतस्य चित्तखास्थ्यं भवति, तस्माचोपादेयप्रवृत्तिः, तथा 'लोकविरुद्रत्यागः सर्वजननिन्दादिलोकविरुद्धानुष्ठानवर्जनं, यदाह - "सव्यस्स चेव निंदा, विसेसओ तहय गुणसमिद्वाणं । उजुधम्भकरणहसणं, रीढा जणपूयणिजाणं ॥ १ ॥ बहुजणविरुद्धसंगो, देसादाचारलंघणं चेव । उच्वणभोओ अ तहा, दाणाइवि पयडमन्ने उ ॥ २ ॥ साहुवसणम्मि तोसो, सह सामत्थम्मि अपडिआरो अ । एमाइआइँ इत्थं, लोगविरुद्वाई णेआई ॥ ३ ॥" गुरुजनस्य 'पूजा' उचितप्रतिपत्तिर्गुरुजनपूजा, गुरवश्च यद्यपि धर्माचार्या एवोच्यन्ते, तथाऽपीह मात्रापित्रादयोऽपि गृह्यन्ते, यदुक्तम् - "माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ १ ॥” 'परार्थकरणं' हितार्थकरणं, जीवलोकसारं, पौरुषचिह्नमेतत् सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवतीत्याह 'शुभगुरुयोगों' विशिष्टचारित्रयुक्ताचार्य सम्बन्धः तथा 'तद्वचनसेवा' सद्गुरुवचनमेवना न जातुचिदद्यमहितमुपदिशति 'आभयं आसंसारं 'अखण्डा' संपूर्णा । इदं च प्रणिधानं न निदानरूपं, प्रायेण निःसङ्गाभिलाषरूपत्वात्, एतच्चाप्रमत्तसंयतादर्द्वाक्कर्त्तव्यं, अप्रमत्तादीनां मोक्षेऽप्यनभिलाषात्, तदेवंविधशुभफलप्रणिधानपर्यन्तं
For Private & Personal Use Only
संग्रह
॥ ॥ १६३ ॥
Jainelibrary.org