________________
SAEEGAANAGARLOCALSALA
चैत्यवन्दनमिति उत्कृष्टवन्दनविधिः ॥ ६२ ॥ अथापि जिनगृहविषयाण्येव शेषकरणीयान्याह
आशातनापरीहारं, स्वशक्योचितचिन्तनम् । प्रत्याख्यानक्रियाऽभ्यर्णे, गुरोविनयपूर्वकम् ॥१३॥
ज्ञानाद्यायस्य शातना खण्डना आशातना निरुक्त्या यलोपः तासां परिहारो वर्जनं विशेषतो गृहिधर्म द इति सम्बन्धः पूर्ववद्रष्टव्यः,एवमग्रेऽपि।आशातनाश्चात्र जिनस्य प्रस्तुताः प्रसङ्गतोऽन्या अपि प्रदर्श्यन्ते, यथा ।
ता ज्ञानदेवगुर्वादीनां जघन्यादिभेदात्रिविधाः, तत्र जघन्या ज्ञानाशातना ज्ञानोपकरणस्य निष्ठीवनस्पर्शः, अन्तिकस्थे च तस्मिन्नधोवातनिसर्गः, हीनाधिकाक्षरोच्चार इत्यादिका १। मध्यमा आकालिकं निरुपधानतपो वा अध्ययनं, भ्रान्त्याऽन्यथाऽर्थकल्पनं, ज्ञानोपकरणस्य प्रमादात् पादादिस्पर्शी भूपातनं चेत्यादिरूपा। उत्कृष्टा तु निष्ठयतेनाक्षरमार्जनं उपर्युपवेशनशयनादि, ज्ञानोपकरणेऽन्तिकस्थे उच्चारादिकरणं, ज्ञानस्य ज्ञानिनां वा निन्दा प्रत्यनीकतोपघातकरणमुत्सूत्रभाषणं चेत्यादिवरूपा ३ । जघन्या देवाशातना वासकुम्पिकाद्यास्फालनश्वासवस्त्राञ्चलादिस्पर्शाद्या १ मध्यमा शरीराद्यशुद्ध्या पूजनं, प्रतिमाभूनिपातनं चेत्याद्या २। उत्कृष्टा प्रतिमायाश्चरणश्लेष्मखेदादिस्पर्शनं भङ्गजननावहीलनाद्या च ३। अथवा देवाशातना जघन्या दश मध्यमाश्चत्वारिंशद् उत्कृष्टाश्चतुरशीतिः, ताश्च क्रमेणैवमाहु:-"तम्बोल १पाण २ भोअण ३, वाहण ४ थीभोग ५ सुवण ६ निट्ठवणं ७ । मुत्तुचारं ९ जूअं १०, वजे जिणमंदिरस्संते ॥१॥” इति जघन्यतो दश देवाशातनाः । मुत्त १ पुरीसं २ पाणं ३, पाणा ४ सण ५ सयण ६ इथि ७ तंबोलं ८। निट्ठीवणं च ९ जूअं
Jain Education in de
For Private & Personal Use Only
AAmjainelibrary.org