________________
Jain Education
नपुंसकलिङ्गसिद्धास्तु तीर्थकरसिद्धा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्तु पुंल्लिङ्गसिद्धा एव । खलिङ्गेन रजोहरणादिना द्रव्यलिङ्गेन सिद्धाः खलिङ्गसिद्धाः, अन्येषां परिव्राजकादीनां लिङ्गेन सिद्धा अन्यलिङ्गसिद्धाः, गृहिलिङ्गसिद्धा मरुदेव्यादयः, एकैकस्मिन् समये एकाकिनः सिद्धाः एकसिद्धा, एकस्मिन् समये अष्टोत्तरं शतं यावत् सिद्धा अनेकसिद्धाः, यत उक्तं - " बत्तीसा अडयाला, सट्ठी बावन्त्तरी अबोद्धव्वा । चुलसीई छन्नउई, दुरहियमत्तरसयं च ॥ १ ॥ नन्वेते सिद्धभेदा आययोस्तीर्थसिद्धातीर्थसिद्धयोरेवान्तर्भवन्ति, तीर्थकर सिद्धादयो हि तीर्थसिद्धाः स्युरतीर्थसिद्धा वेति ? सत्यं सत्यप्यन्तर्भावे पूर्व भेदद्वयादेवोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमदुष्टमिति । एष सिद्धस्तुतिरूपोऽष्टमोऽधिकारः । इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानखामिनः स्तुतिं करोति - "जो देवाणवि देवो, जं देवा पंजली नमसंति । तं देवदेवमहिअं, सिरसा वंदे महावीरं ॥ २ ॥" 'यो' भगवान्महावीरो 'देवानामपि' भवनवास्यादीनां पूज्यत्वाद्देवः, अत एवाह - 'यं देवा:' 'प्राञ्जलयो' विनयरचितकरसम्पुटाः सन्तो 'नमस्यन्ति' प्रणमन्ति 'तं' भगवन्तं 'देवदेवैः शक्रादिभिः 'महितं' पूजितं 'वन्दे' 'शिरसा' उत्तमाङ्गेन, आदरप्रदर्शनार्थ चैतत् कं तम् ? 'महावीरं' विशेषेण ईश्यति कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तं । इत्थं स्तुतिं कृत्वा पुनः परोपकारायात्मभाववृत्त (द्ध) ये च फलप्रदर्शनपरमिदं पठति - "एक्कोवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेह
For Private & Personal Use Only
jainelibrary.org