________________
॥१६१॥
द्वादिभेदेभ्यः, यथोक्तम्-"तित्थसिद्धा, अतित्थसिद्धा, तित्थयरसिद्धा, अतित्थयरसिद्धा, सयंबुद्धसिद्धा, पत्तेयवुद्धसिद्धा, बुद्धबोहिअसिद्धा, थीलिङ्गसिद्धा, पुरिसलिंगसिद्धा, नपुंसगलिङ्गसिद्धा, सलिङ्गसिद्धा, अन्नलिङ्गसिद्धा, गिहिलिंगसिद्धा, एगसिद्धा, अणेगसिद्धा"। तत्र तीर्थे चतुर्विधश्रमणसङ्के उत्पन्ने सति ये सिद्धास्ते तीर्थसिद्धाः, अतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिना अवाप्तापवर्गमार्गाः सिद्धा अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा तदा तीर्थस्यानुत्पन्नत्वात् । तीर्थकरसिद्धाः तीर्थकरत्वमनुभूय सिद्धाः, अतीर्थकरसिद्धाः सामान्यकेवलित्वे सति सिद्धाः, स्वयंवुद्धाः सन्तो ये सिद्धाः ते स्वयंवुद्धसिद्धाः, प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः । खयंबुद्धप्रत्येकबुद्धयोश्च बोध्युपधिश्रुतलिङ्गकृतो विशेषः, स्वयंबुद्धा बाह्यप्रत्ययमन्तरेण वुध्यन्ते, प्रत्येकबुद्धाः पुनर्बाह्यप्रत्ययेन वृषभादिना करकण्ड्वादिवत्, उपधिस्तु स्वयंबुद्धानां पात्रादिदशधा, प्रत्येकवुद्धानां प्रावरणवों नवविधः, खयंबुद्धानां पूर्वाधीतश्रुते न नियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिस्तु खयंवुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबुद्धानां देवता लिङ्गं प्रयच्छति। बुद्धा आचार्या अवगततत्त्वाः तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः केचित्पुंल्लिङ्गसिद्धाः केचिन्नपुंसकलिङ्गसिद्धाः। ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिद्धा भवन्ति ? भवन्त्येव, यत उक्तं सिद्धप्राभृते-"सवथोवा तित्थयरिसिद्धा, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेजगुणा, तित्थयरितित्थे नोतित्थयरिसिद्धाओ असंखेजगुणाओ, तित्थयरतित्थे णोतित्थयरसिद्धा संखेनगुणा"|
॥१६॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org