________________
LOCAUSAMACROCOCCALLED
अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥१॥” इति वचनात्, एतन्निरासायाह-पारगतेभ्यः' पारं| पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगतास्तेभ्यः, एते च यदृच्छावादिभिः कैश्चिद्दरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाभिधीयन्ते, तादासार्थमाह-परंपरगयाणं' परम्परया चतुर्दशगुणस्थानक्रमारोहरूपया अथवा कथश्चित्कर्मक्षयोपशमादिसामय्या सम्यग्दर्शनं, तस्मात् सम्यग्ज्ञानं, तस्मात् सम्यक्चारित्रमित्येवंभूतया 'गताः' मुक्तिस्थान प्राप्ताः परम्परागतास्तेभ्यः, एते च कैश्चिदनियतदेशा अभ्युपगम्यन्ते “यत्र क्लेशक्षयस्तस्य, विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह, तभावान्न जातुचिद् ॥१॥” इति वचनात्, एतन्निरासायाह-'लोकाग्रमुपगतेभ्यः' लोकाग्रमीषत्प्रारभाराख्यायाः पृथिव्या उपरि क्षेत्रं तदुप सामीप्येन तदपराभिन्नदेशतया निःशेषकर्मक्षयपूर्वकं गताः प्राप्ताः, उक्तं च-जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का।। अण्णोण्णमणाबाहं, चिट्ठति सुही सुहं पत्ता ॥१॥” तेभ्यः । ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावद्गतिः?| उच्यते, पूर्वप्रयोगादियोगात्, “पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच । गतिपरिणामाच तथा, सिद्धस्यो | गतिः सिद्धा ॥१॥” ननु सिद्धक्षेत्रात्परतोऽधस्तिर्यग्वा कस्मान्न गच्छति ? अत्राप्युक्तम् “नाधो गौरवविगमा-3 दसङ्गभावाच गच्छति विमुक्तः। लोकान्तादपि न परं, प्लवक इवोपग्रहाभावात् ॥१॥ योगप्रयोगयोश्चाभावात्तिर्यग्न तस्य गतिरस्ति । तस्मात्सिद्धस्योवं, ह्यालोकान्ताद्गतिर्भवती ॥२॥"ति । 'नमः सदा सर्वसिद्धेभ्यः' नमोऽस्तु सदा सर्वकालं सर्वसिद्धेभ्यः सर्व साध्यं सिद्धं येषां ते सर्वसिद्धास्तेभ्यः, अथवा सर्वसिद्धेभ्यः तीर्थसि
Jain Education inERI
For Private & Personal Use Only
INMainelibrary.org