________________
धर्म
बुद्धाणं, पारगयाणं परंपरगयाणं । लोअग्गमुवगयाणं, नमो सया सव्वसिद्धाणं ॥१॥"सिद्ध्यन्ति स्म सिद्धाः nanाये येन गुणेन निष्पन्ना परिनिष्ठिताः सिद्धौदनवन्न पुनः साधनीया इत्यर्थः, तेभ्यो नम इति योगः, ते चा
सामान्यतः कर्मादिसिहा अपि भवन्ति, यथोक्तं "कम्मे सिप्पे य विजा य, मंते जोगे य आगमे । अस्थजत्ता अभिप्पाए, तवे कम्मखए इय ॥१॥” तत्र कर्माचार्योपदेशरहितं भारवहनकृषिवाणिज्यादि, तत्र सिद्धः परिनिष्ठितः सह्यगिरिसिद्धवत्, शिल्पं त्वाचार्योपदेशजं तत्र सिद्धः कोकासवाईकिवत्, विद्या जपहोमादिना फलदा, मनो जपादिरहितः पाठमात्रसिद्धः, स्त्रीदेवताधिष्ठाना(वा)विद्या, पुरुषदेवताधिष्ठानस्तु मन्त्रः, तत्र विद्यासिद्धः आर्यखपुटवत्, मन्त्रसिद्ध स्तम्भाकर्षकवत्, योग ओषधिसंयोगः तत्र सिद्धो योगसिहः आर्यसमितवत्, आगमो द्वादशाङ्गं प्रवचनं तत्रासाधारणावगमात्सिद्धः आगमसिद्धो गौतमवत, अर्थों धनं स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत्, जले स्थले वा यस्याविना यात्रा स यानासिद्धः तुण्डिकवत्, यमर्थमभिप्रेति तमर्थ तथैव यः साधयति सोऽभिप्रायसिद्धोऽभयकुमारवत्, यस्य सर्वोत्कृष्टं तपः स तपःसिद्धो दृढप्रहारिवत्, यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्मनिर्मूलनेन सिद्धः स कर्मक्षयसिद्धो मरुदेवीवत्, अतः कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह 'वुद्धेभ्यः' अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिद्धा इत्यर्थः, तेभ्यः, एते च संसारनिर्वाणोभयपरित्यागस्थितिमन्तः कैश्चिदिष्यन्ते, 'न संसारे न निर्वाणे, स्थितो भ(भुवनभूतये।
॥
Jain Education ira
l
For Private Personal use only